________________
विशेषा०
॥९५२॥
तदेवं मित्रश्रीश्रावकेणोक्ते स किं कृतवान् ? इत्याह
इय चोइय संबुद्धो खामियपडिलाभिओ पुणो विहिणा। गंतुं गुरुपायमूलं ससीसपरिसो पडिकंतो॥२३५५॥
इति प्रेरितः संबुद्धोऽसौ विहितक्षमितक्षामितेन मित्रश्रीश्रावकेण संपूर्णान्नप्रदानादिविधिना पुनरपि प्रतिलाभितो गुरुपादमूलं गत्वा शिष्यपरिषत्समेतो विधिना प्रतिक्रान्तः सम्यग् मार्ग प्रपन्नो गुर्वन्तिके विजहार ॥ इति त्रयोविंशतिगाथार्थः ॥ २३५५ ॥
॥ इति जीवप्रदेशवादी तिष्यगुप्तनामा द्वितीयो निह्नवः समाप्तः ॥ अथ तृतीयनिववक्तव्यतामाह
चउदस दो वाससया तइआ सिद्धिं गयस्स वीरस्स । तो अव्वत्तयदिट्ठी सेयविआए समुप्पण्णा ॥२३५६॥
चतुर्दशाधिकवर्षशतद्वयं तदा श्रीमन्महावीरस्य सिद्धिगतस्यासीत् । ततोऽव्यक्ताभिधाननिहवानां दृष्टिदर्शनरूपा श्वेतविकायां नगर्यां समुत्पन्नेति ॥ २३५६ ॥
कथम् ? इत्याह--
सेयविपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मनलिणिगुम्मे रायगिहे मूरियबलभद्दे ॥२३५७॥
श्वेतविकाया नगर्याः पौलाषाढचैत्य आर्याषाढनामान आचार्याः स्थिताः । तेषां च बहवः शिष्या आगाढयोगान् प्रपन्नाः। अपरवाचनाचार्यासत्त्वे च त एवार्याषाढमूरयस्तेषां वाचनाचार्यत्वं प्रतिपन्नाः । तथाविधकर्मविपाकतश्च ते तत्रैव दिवसे रजन्यां हृदयशूलेन कालं कृत्वा सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेनोत्पन्नाः । न च विज्ञाताः केनापि गच्छमध्ये । ततोऽवधिना प्राक्तनव्यतिकरं विज्ञाय साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठाप्योत्थाप्य च प्रोक्तास्तेन साधवः- यथा वैरात्रिककालं गृह्णीत । ततः कृतं साधुभिस्तथैव । श्रुतस्योदेश-समुद्देशा-ऽनुज्ञाश्च तदग्रतः कृताः । एवं दिव्यप्रभावतस्तेन देवेन तेषां साधूनां कालभङ्गादिविघ्नं
1 इति चोदितः संबुद्धः क्षामितप्रतिलाभितः पुनर्विधिना । गत्वा गुरुपादमूलं सशिष्यपरिषत् प्रतिक्रान्तः ॥ २३५५ ।। २ चतुर्दश हे वर्षशते तदा सिदि गतस्य वीरस्य । ततोऽव्यक्तकरष्टिः श्वेतविकायां समुत्पना ॥ २३५६ ॥ ३ श्वेतविकापौलापादे योगे तदिवसहृदयशूले च । सौधर्मनलिनीगुल्मे राजगृहे मौर्यचकभद्रः ॥ २३५० ॥
॥९५२॥
Per Personal
e n