________________
विशेषा.
बृतिः ।
॥९५१॥
वार
अंतोऽवयवो न कुणइ समत्तकज्जति जइ न सोऽभिमओ। संववहाराईए तो तम्मि कोऽवयविगाहो?॥२३५१॥
यदि नामान्त्यावयवः समस्तस्याप्यवयविनो यत् साध्य कार्य तद् न करोति, इत्यतोऽसौ नाभिमतो भवताम्- कूर-पक्कानवस्त्रादानां सिक्य-सुकुमारिकादिमूक्ष्मखण्डतन्त्वादिरूपोऽन्त्यावयवो यदि न परितोषकरो भवतामित्यर्थः, वृर्हि संव्यवहारातीते तस्मिअन्त्यावयवे कुतः किल समस्तावयविग्रहो भवताम् ? इति ।। २३५१ ।।
प्रमाणयन्नाह
अंतिमततू न पडो तक्कज्जाकरणओ जहा कुंभो । अह तयभावे वि पडो सो किं न घडो खपुप्पं व?॥२३५२॥
अन्त्यतन्तुमात्रं न पटः, तस्य पटस्य कार्य शीतत्राणादिकं तत्कार्य तस्याकरणं तत्कार्याकरणं तस्मादिति । यथा कुम्भो घटः । अथ तदभावेऽपि पटका भावेऽपि तन्तुः पट इष्यते, तर्हि किमित्यसौ पटो घटः खपुष्पं वा न भवति, पटकार्याकर्तृत्वस्याविशेषादिति ॥ २३५२ ॥
तथा,
उवलंभव्ववहाराभावाओ नत्थि ते खपुप्फ व । अंतावयवेऽवयवी दिलुताभावओ वावि ॥ २३५३ ॥
तवाभिमतोऽवयवी अन्त्यावयवे नास्ति, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, व्यवहाराभावाच, खपुष्पवादिति । अथवा, अन्त्या-1 वयवमात्रमवयवी, अवयविसंपूर्णहेतुत्वात्' इत्यत्र तावद् दृष्टान्ताभावाद् न साध्यसिद्धिरिति ।। २३५३ ।।
यदि नाम नोपलभ्यते, नापि व्यवह्रियते, दृष्टान्ताभावाच नानुमीयते, ततः किम् ? इत्याह
पेच्चक्खओऽणुमाणादागमओ वा पसिद्धी अत्थाणं । सव्वप्पमाणविसयाईयं मिच्छत्तमेवं भे॥२३५४॥
प्रत्यक्षादिप्रमाणैरर्थानां सिद्धिः, तानि च त्वत्पक्षसाधकत्वेन न प्रवर्तन्ते । अतः सर्वप्रमाणविषयातीतं 'मे' भवतामभिमत मिथ्यात्वमेवेति ॥ २३५४ ॥
१ अन्त्योऽवयवो न करोति समस्तकार्यमिति यदि न सोऽभिमतः । संग्यवहारातीते ततस्तस्मिन् कुतोऽवयविग्रहः ॥ २३५१ ॥ २ अन्तिमतन्तुर्न पटस्तत्कार्याकरणतो यथा कुम्भः । अथ तदभावेऽपि पटः स किं न घटः खपुष्पं वा ? ॥ २३५२ ॥ ३ क. ग. 'यादि। • उपलम्भग्यवहाराभावाद् नास्ति तव खपुष्पमिव । अन्त्यावयवेऽवयवी दृष्टान्ताभावतो वापि ॥ २३५५ ॥ ५ प्रत्यक्षतोऽनुमानादागमतो वा प्रसिद्धिरर्थानाम् । सर्वप्रमाणविषयातीतं मिथ्यात्वमेवं भवताम् ॥ २३५५ ॥
||९५१शः
For Personal and
Use Only
A
wajanmbrary.org