________________
विशेषा०
॥९५४॥
Jain Education internat
कथमव्यक्तदृष्टयो जाताः १ इत्याह
htts किं साहू देवो वा तो न वंदणिज्जो त्ति । होज्जाऽसंजयनमणं होज्ज मुसावायममुगोति ॥ २३५९॥ बृहद्वतिः ।
को जानाति - किमयं साधुवेषधारी साधुर्देवो वा ?- नास्त्येवात्र निश्चय इत्यर्थः । न च वक्तव्यम् - साधुरेवायम्, तद्वेष-समाचारदर्शनात्, भवानिव; आर्याषाढदेवेऽपि साधुवेष-समाचारदर्शनेनानैकान्तिकत्वात् । तस्माद् न कोऽपि वन्दनीयः, संशयविषयत्वात् । यदि पुनर्वन्यते तदाऽर्याषाढदेववन्दन इवासंयतवन्दनं स्यात् । तदमुको ब्रवीति- भाषणे च मृषावादः स्यादिति ।। २३५९ ।। अथ प्रतिविधानमाह -
1
Pari जइ परे संदेहो किं सुरो ति साहु त्ति ? । देवे कहं न संका किं सो देवो न देवो त्ति ? ॥ २३६० ॥ तेण कहियं ति व मई देवोऽहं रूवदरिसणाओ य । साहु त्ति अहं कहिए समाणरूवम्मि का संका ? ॥ २३६१ ॥ देवस्स व किं वयणं सच्चं ति न साहुरूवधारिस्स । न परोप्परं पि वन्दह जं जाणन्ता वि जयउ ति ॥ २३६२ ॥ तिस्रोऽप्युक्तार्थाः ॥ २३६० ।। २३६१ ।। २३६२ ।।
किञ्च, यदि प्रत्यक्षेष्वपि यतिषु भवतां शङ्का, तर्हि परोक्षेषु जीवादिषु सुतरामसौ प्राप्नोति, ततः सम्यक्त्वस्याप्यभाव इति दर्शयन्नाह -
वात्सु सुमव्यवहिय - विगिहरू बेसुं । अञ्च्चंत परोक्खेसु य किह न जिणाईसु मे संका ? || २३६३ || गतार्था ॥ २३६३ ॥
१ को जानाति किं साधुर्देवो वा ततो न वन्दनीय इति । भवेदसंयतनमनं भवेद् मृषावादोऽमुक इति ॥ २३५९ ॥
२ स्थविरवचनं यदि परे सन्देहः किं सुर इति साधुरिति । देवे कथं न शङ्का किं स देवो न देव इति १ ॥ २३६० ॥ तेन कथितमिति वा मतिर्देवोऽहं रूपदर्शनाच्च । साधुरिति कथं कथिते समानरूपे का शङ्का ? ॥ २३६१ ॥
देवस्य वा किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपहि वन्दध्वे यज्ञानन्तोऽपि यतय इति ॥ २३६२ ॥ ३ जीवादिपदार्येषु च सूक्ष्म-व्यवहित- विकृष्टरूपेषु । अत्यन्तपरोक्षेषु च कथं न जिनादिषु भवतां शङ्का ? ।। २३६३ ॥
For Personal and Private Use Only
॥९५४॥
www.jainelibrary.org