Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
आपच,
diotetevoleo
विशेषा०
हत्तिः ।
॥९५८॥
जइ जिणमयं पमाणं मुणि त्ति तो बज्झकरणपरिसुद्धं । देवं पि वन्दमाणो विसुद्धभावो विसुद्धो त्ति ॥२३७७॥
यदि जिनमतं भवतां प्रमाणम् , तर्हि 'मुनिः' इत्यनया बुद्ध्या आलय-विहारादिबाह्यकरणपरिशुद्धं देवमपि- अमरमपि वन्दमानो विशुद्धभावो भवेद् दोषरहितो विशुद्ध एव । उक्तं चागमे
"परमरहस्समिसीणं समत्तगणिपिड़गभवियसाराणं | परिणामियं पमाणं निच्छयमबलंबमाणाणं ॥१॥" इत्यादि ॥ २३७७॥ अथवा,
जह वा सो जइरूवो दिह्रो तह कित्तिया सुरा अन्ने । तुब्भेहिं दिट्ठपुवा सव्वत्थापच्चओ जं भे ॥२३७८॥
'वा' इत्यथवा, यथाऽऽाषाढदेवो यतिरूपधरोऽत्र दृष्टस्तथा कियन्तः सुरास्ततोऽन्ये भवद्भिदृष्टपूर्वाः, यदेतावन्मात्रेणापि सर्वत्राप्रत्ययो 'भे' भवताम् । न हि कदाचित् कथञ्चित् कचिदाश्चर्यकल्पे कस्मिंश्चित् तथाविधे दृष्टे सर्वत्र तथाभावाशङ्का युज्यत इति भावः । तस्माद् व्यवहारनयमाश्रित्य युक्तं भवतामन्योन्यवन्दनादिकम् । उक्तं च
"निच्छयओ दुन्नेयं को भावे कम्मि वट्टए समणो । संववहारो य जुज्जइ जो पुव्वढिओ चरित्तम्मि ॥ १॥" इत्यादि ।। २३७८ ॥ एतदेव समर्थयन्नाह
छेउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्वो विसुद्धमणो ॥ २३७९ ॥
यदि जिनमतं प्रमाणं मुनिरिति ततो बाह्यकरणपरिशुदम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध इति ॥ २३७७ ॥ २ परमरहस्यमृषीणां समस्तगणिपिटकभव्यसाराणाम् । पारिणामिकं प्रमाण निश्चयमवलम्बमानानाम् ॥ १॥ । यथा वा स यतिरूपी दृष्टस्तथा कियन्तः सुरा अन्ये ? । युष्माभिर्दष्टपूर्वाः सर्वत्राप्रत्ययो यद् भवताम् ।। २३७५ ।। ४ निश्चयतो दुनिं को भावे कस्मिन् वर्तते श्रमणः । व्यवहारतश्च युज्यते यः पूर्वस्थितचरित्रे ॥१॥ ५ छप्रस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । ता तथा समाचरन् शुध्यति सर्वो विशुद्धमनाः ।। २३०९ ॥
॥९५८॥
AmEducatora Inten
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202