SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ SHANCPIRAT 220 E2262402.62 विशेषा. ॥९४९॥ जीवपएसे जीवे त्ति वत्तव्यं सिया ? । नो इणडे समढे " इति । ततो यदि श्रुतं तत्र प्रमाणम् , ततोऽन्त्यप्रदेशस्यापि जीवत्वं नेष्टव्यम् , एकत्वात , प्रथमाद्यन्यतरप्रदेशवत् । किश्च, यदि श्रुतं हन्त ! प्रमाणीकरोषि, तदा सर्वेऽपि जीवप्रदेशाः परिपूर्णा जीवत्वेन श्रुते । वृहद्वत्तिः । भणिताः, न त्वेक एव चरमप्रदेशः । तथा च तत्रैवाभिहितम्- "जम्हा णं कसिणे पडिपुने लोगागासपएसतुल्ले जीवे चि बत्तवं सिया"। अतः श्रुतप्रामाण्यमिच्छता भवता नैक एवान्त्यप्रदेशो जीवत्वेनैष्टव्य इति ॥ २३४३॥ अमुमेवार्थ दृष्टान्तेन साधयन्नाहतंतू पडोवयारी न समत्तपडो य समुदिया ते उ । सव्वे समत्तपडओ सव्वपएसा तहा जीवो ॥ २३४४ ॥ एकस्तन्तुर्भवति समस्तपटोपकारी, तमप्यन्तरेण समस्तपटस्याभावात् । परं स एकस्तन्तुः समस्तपटो न भवति, किन्तु ते तन्तवः सर्वेऽपि समुदिताः समस्तपटव्यपदेशं लभन्त इति प्रतीतमेव । तथा जीवप्रदेशोऽप्येको जीवो न भवति, किन्तु सर्वेऽपि जीवप्रदेशाः समुदिता जीव इति ।। २४३४ ॥ " ननु पार यदुक्तम्- 'नयमयमयाणमाणस्स दिट्ठिपोहो समुप्पण्णा' इति । तत् कस्य नयस्यैवं मतम् ? इत्येतद् व्यक्तीकरणपूर्वकमुपदेशमाह ऎवंभूयनयमयं देस-पएसा न वत्थुणो भिन्ना । तेणावत्थु त्ति मया कसिणं चिय वत्थुमिढं से ॥२३४५॥ जइ तं पमाणमेवं कसिणो जीवो अहोवयाराओ । देसे वि सव्वबुद्धी पवज्ज सेसे वि तो जीवं ॥२३४६॥ एवंभूतनयस्येदं मतं यदुत- देश-प्रदेशा न वस्तुनो भिन्नाः, तेन ताववस्तुरूपौ मतौ। अतो देश-प्रदेशकल्पनारहितं कृत्स्नं परिपूर्णमेव वस्तु 'से' तस्यैवंभूतनयस्येष्टम् । ततो यदि तदेवंभूतनयमतं प्रमाणं जानासि त्वम् , एवं तर्हि कृत्स्नः परिपूर्णो जीवो, न त्वन्त्यप्रदेशमात्रमिति प्रतिपद्यस्व । अथ 'ग्रामो दग्धः' 'पटो दग्धः' इत्यादिन्यायादेकदेशेऽपि सतस्तवस्तूपचारादन्त्यप्रदेशलक्षणे देशेऽपि समस्तजीवबुद्धिस्तत्र प्रवर्तते, तर्हि शेपे प्रथमादिप्रदेश उपचारतो जीवं प्रतिपद्यस्व, न्यायस्य समानत्वादिति ॥ २३४५॥ २३४६॥ १ पृ० ९४६ । २ तन्तुः पटोपकारी न समस्तपटश्च समुदितास्ते तु । सर्वे समस्तपटकः सर्वप्रदेशास्तथा जीवः ॥ २३४४ ॥ ३ गाथा २३३५ । । एवंभूतनवमतं देश-प्रवेशौ न वस्तुनो भिन्नौ । तेनावस्त्विति मती कृत्स्नमेव वस्विष्टं तस्य ॥ २३५५ ॥ ॥९४९॥ यदि तत् प्रमाणमेवं कृत्स्नो जीवोऽथोपचारात् । देशेऽपि सर्वबुद्धिः प्रपद्यस्य शेषानपि ततो जीवम् ॥ २३४६ ॥ For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy