SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदत्तिा ॥९४८॥ यद् विष्वगेकैकस्मिन्नवयवे सर्वथा नास्ति तत् सर्वेष्वप्यवयवेषु समुदितेषु न भवति, यथा रेणुकणेषु प्रत्येकमसत् तत्समुदाये तैलम् , नास्ति च प्रथमादिक एकैकस्मिन् प्रदेशे जीवत्वम् , ततः शेषेषु प्रथमादिप्रदेशेषसज्जीवत्वं परिणामादिना तुल्ये कथमकस्मादेवास्मिन्नेवान्त्यप्रदेशे समायातम् ? इति ।। २३४०॥ पुनः परमतमाशङ्कय परिहरन्नाहअह देसओऽवसेसेसु तो वि किह सव्वहंतिमे जुत्तो । अह तम्मि व जो हेऊ स एव सेसेसु वि समाणो ॥२३४१॥ अथान्त्यादवशेषेषु प्रथमादिप्रदेशेषु देशतो जीवः समस्त्येव, अन्त्यप्रदेशे तु सर्वात्मनाऽसौ समस्तीति विशेषः । ततो "ज सव्वहा न वीसु' इत्येतदसिद्धमिति भावः । अत्रोत्तरमाह- तथापि कथमन्त्यप्रदेशे सर्वात्मना जीवो युक्तः । ननु तत्रापि देशत एवासौ युज्यते, तस्यापि प्रदेशत्वात् , प्रथमादिप्रदेशवत् । अथान्त्यप्रदेशे संपूर्णो जीव इष्यते, तर्हि तत्र तद्भावे यो हेतुः स शेषेष्वपि प्रथमादिप्रदेशेषु समान एव, तुल्यधर्मकत्वात् । अतस्तेष्वपि प्रतिप्रदेशं संपूर्णजीवत्वमन्त्यप्रदेशवत् किं नेष्यते ? इति ॥ २३४१॥ अथ प्रथमादिप्रदेशेषु जीवत्वं नेष्यते, तीन्त्यप्रदेशेऽपि नेष्टव्यम् । कुतः ? इत्याह'नेह पएसत्तणओ अन्तो जीवो जहाइमपएसो। आह सुयम्मि निसिद्धा सेसा न उन्तिमपएसो ॥२३४२ ॥ ___ इहान्त्यप्रदेशोऽपि न जीवः, प्रदेशत्वात् , यथा प्रथमादिप्रदेश इति । आह- नवागमवाधितेयं प्रतिज्ञा, यतः पूर्वोक्तालापकरूपे श्रुते शेषाः प्रथमादिप्रदेशा जीवत्वेन निषिद्धाः, न पुनरन्त्यप्रदेशः, तस्य तत्र जीवत्वानुज्ञानात् । अतः कथं प्रथमादिप्रदेशबदन्त्यस्य जीवत्वनिषेधं मन्यामहे ? इति ॥ २३४२॥ अत्रोत्तरमाहनणु एगो त्ति निसिद्धो सो वि सुए जइ सुयं पमाणं ते। सुत्ते सव्वपएसा भणिया जीवो न चरिमो त्ति ॥२३४३॥ ननु सोऽप्यन्त्यप्रदेशः श्रुते जीवत्वेन निषिद्धः । कुतः ? इत्याह-एक इति कृत्वा । तथाहि- तत्रैवेत्थमुक्तम्- “ऐगे भन्ते ! , अध देशतोऽवशेषेषु ततोऽपि कथं सर्वथान्तिमे युक्तः । अथ तस्मिन् वा यो हेतुः स एव शेषेवपि समानः ॥ २३॥ ॥ २ गाथा २३४. । ९ि४८॥ ३ नेह प्रदेशवतोऽन्त्यो जीवो यथादिमप्रदेशः । आह श्रुते निषिद्धाः शेषा न त्वन्तिमप्रदेशः ॥ २३४२ ॥ * नन्वेक इति निषिद्धः सोऽपि श्रुते यदि श्रुतं प्रमाणं तव । सूत्रे सर्वप्रदेशा भणिता जीवो न चरम इति ॥ २३४३ ॥ ५ पृ. ९४६ For Personal Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy