________________
विशेषा.
॥९४७॥
सरनसहवास
अथवा, व्यत्ययेन प्रयोग इति दर्शयति
अहव स जीवो कह नाइमो त्तिको वा विसेसहेऊ ते । अह पूरणो त्ति बुद्धी एकेको पूरणो तस्स ॥२३३८॥
अथवा, सोऽन्तिमप्रदेशः कथं जीवस्त्वयाऽभ्युपगम्यते, कथं च न-नैवादिमः प्रथमस्तद्रूपतयेष्यते । नन्वायोऽपि प्रदेशो जीव एवेष्यताम् , शेषप्रदेशतुल्यपरिणामत्वात् , अन्त्यप्रदेशवदिति । को वाऽत्र विशेषहेतुस्तव, येन प्रदेशत्वे तुल्येऽप्यन्तिमो जीवो न प्रथमः इति । अथ विवक्षितासंख्येयप्रदेशराशेरन्त्यः प्रदेशः पूरण इति विशेषसद्भावतः स जीवो न प्रथम इति तव बुद्धिः। तदयुक्तम् , यतो यथाऽन्त्यः प्रदेशः पूरणस्तथैकैकः प्रथमादिप्रदेशस्तस्य विवक्षितजीवप्रदेशराशेः पूरण एव, एकमपि प्रदेशमन्तरेण तस्यापरिपूर्तेरिति ॥ २३३८ ॥
एवं च सर्वप्रदेशानां पूरणत्व इदमनिष्टमापतति । किम् ? इत्याह
ऐवं जीवबहुत्तं पइजीवं सब्बहा व तदभावो । इच्छा विवज्जओ वा विसमत्तं सवसिद्धी वा ॥२३३९॥
एवं सर्वजीवप्रदेशानां विवक्षितप्रदेशमानपूरणत्वेऽन्त्यप्रदेशवत् प्रत्येक जीवत्वात् प्रतिजीवं जीवबहुत्वमसंख्येयजीवात्मकं पामोति । अथवा, प्रथमादिप्रदेशवदन्त्यप्रदेशस्याप्यजीवत्वे सर्वथा तदभावो जीवाभावः प्रसजति । अथ पूरणत्वे समानेऽप्यन्त्यप्रदेश एव जीवः, शेषास्तु प्रदेशा अजीवा इत्याग्रहो न मुच्यते, तर्हि राजादेरिवेच्छा भवतः, यत् प्रतिभासते तदेव हि जलप्यत इति । तथा च सति विपर्ययोऽपि कस्माद् न भवति, आयो जीवः, अन्त्यस्तु प्रदेशोऽजीव इति ? । विषमत्वं वा कुतो न भवति- केचनापि प्रदेशा जीवाः, केचित्तु अजीवा इति । अनियमेन सर्वविकल्पसिद्धिा कस्माद् न भवति, खेच्छया सर्वपक्षाणामपि वक्तुं शक्यत्वात् ? इति ।। २३३९ ॥
किश्च,
जं सव्वहा न वीसुं सव्वेसु वि तं न रेणुतेल्लं व । सेसेसु असब्भूओ जीवो कहमंतिमपएसे ? ॥२३४०॥
सरसरमARAT
o
corati
, अथवा स जीवः कथं नादिम इति को वा विशेषहेतुस्तव ! । अथ पूरण इति बुद्धिरैकैकः पूरणस्तस्य ॥ २३३८॥ २ एवं जीवबहुत्वं प्रतिजीचं सर्वधा वा तदभावः । इच्छा विपर्ययो वा विषमत्वं सर्वसिदिवा ॥ २३३९॥ ३ यत् सर्वथा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । शेषेष्वसद्भूतो जीवः कथमन्तिमप्रदेशे ॥ २३४० ॥
| ॥९४७॥
For Personal and Present