________________
विशेषा० ॥९४६॥
Jain Educators Interna
आत्मवादनामकं पूर्वमधीयानस्य तिष्यगुप्तस्यायं सूत्रालापकः सामायातस्तद्यथा- "ऐगे भंते ! जीवपएसे जीवे त्ति वत्तन्वं सिया ? | नो इणट्ठे समट्ठे । एवं दो, तिन्नि, जाब दस, संखेज्जा, असंखेज्जा भंते ! जीवपएसा जीव त्ति वत्तन्त्र सिया ? । नो इणद्वे समट्ठे, एगपणे त्रिणं जीवे नो जीवे त्ति वत्तव्वं सिया से केणं अडेणं १ । जम्हा णं कसिणे पडिपुने लोगागासपरसतुल्ले जीवे जीवेत्ति सिया, से तेणं अद्वेणं" इति । अमुं चालापकमधीयानस्य कस्यापि नयस्येदमपि मतम्, न तु सर्वनयानाम्' इत्येवमजानतस्तिष्यगुप्तस्य मिथ्यात्वोदयाद् दृष्टेर्दर्शनस्य मोहो विपर्यासः संजात इति ॥ २३३५॥
कथम् ? इत्याह
गादओ पसा नो जीवो नो पएसहीणो वि । जं स जेण पुण्णो स एव जीवो पएसौ ति ॥ २३३६ ॥ यद् यस्मादेकादयः प्रदेशास्तावज्जीवो न भवति, “ऐगे भंते ! जीवपएसे" इत्याद्यालापके निषिद्धत्वात् एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रैवालापके निवारितत्वात् । ततस्तस्माद् येन केनापि चरममदेशेन स जीवः परिपूर्ण : क्रियते स एव प्रदेशो जीवो न शेषप्रदेशाः, एतत्सूत्रालापकप्रामाण्यादिति । एवं विप्रतिपन्नोऽसाविति ।। २३३६ ॥
ततः किम् ? इत्याह
गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तप्परिणामो चिय जीवो कहमंतिमपएसो १ ॥ २३३७॥
'एकोऽन्त्यपदेशो जीवः, तद्भावभावित्वाज्जीवत्वस्य' इत्यादि ब्रुवाणस्तिष्यगुप्तो गुरुणा वसुसूरिणाऽभिहितः- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवो न संमतः, ततस्तर्ह्यन्तिमो जीवप्रदेशः कथं केन प्रकारेण जीवः १ - न घटत एव सोऽपि जीव इत्यर्थः । कुतः ? तत्परिणाम इति कृत्वा । इदमुक्तं भवति भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्यपरिणामत्वात् प्रथमाद्यन्यप्रदेशवदिति ।। २३३७ ॥
१ एको भगवन् ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः । एवं द्वौ त्रयो यावद् दश, संख्येयाः, असंख्येया भगवन् ! जीवप्रदेशा जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः, एकप्रदेशोनोऽपि जीवो नो जीव इति वक्तव्यं स्यात् । अथ केनाथन ? यस्मात् कृत्स्नः परिपूर्ण छोकाकाशप्रदेशतुल्यो जीवो जीव इति वक्तव्यं स्यात् तेनार्थेन ।
२ एकादयः प्रदेशा नो जीवो नो प्रदेशहीनोऽपि । यत् ततः स येन पूर्णः स एव जीवः प्रदेश इति ॥ २३३६ ॥
३ गुरुणाऽभिहितो यदि तव प्रथमप्रदेशो न संमतो जीवः । ततस्तत्परिणाम एव जीवः कथमन्तिमप्रदेशः १ ॥ २३३७ ॥
For Personal and Private Use Onty
बृहद्वचिः ॥
॥९४६॥
www.jainelibrary.org