Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 152
________________ विशेषा० ॥ ९५०॥ Jain Educatora Internal अथवा, अभ्युपगम्येदमुक्तम्, न चैकप्रदेशमात्रे सर्वजीवोपचारो युज्यत इति दर्शयन्नाहं -- जैत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि ||२३४७ ॥ अथवा, उपचारादप्येक एवान्त्यप्रदेशो जीवो न भवति, किन्तु देशोन एव जीवे जीवेोपचारो युज्यते, यथा तन्तुभिः कतिपयैरूने पटे पटोपचारो दृश्यते, न त्वेकस्मिंस्तन्तुमात्र इति ।। २३४७ ॥ एवं गुरुणाऽभिहिते ततः किम् १ इत्याह- tय पणविओ जाहे न पवज्जइ सो कओ तओ बज्झो । ततो आमलकप्पाए मित्तसिरिणा सुहोवायं ॥ २३४८॥ भक्खण-पाण-वंजण-वत्थंतावयवलाभिओ भणइ । सावय ! विधम्मिया म्हे कीस त्ति तओ भणइ सड्ढो ॥ २३४९ ॥ न तुझं सिद्धंतो पजंतावयवमित्तओऽवयवी । जइ सच्चमिणं तो का विहम्मणा मिच्छमिहरा भे ॥ २३५० ॥ गतार्था एव । नवरमिति पूर्वोक्तप्रकारेण गुरुभिः प्रज्ञापितस्तिष्यगुप्तो यावद् न किञ्चित् प्रतिपद्यते तत उद्धाट्य बाह्यः कृतो विहरन्नामलकल्पां नगरीं गत्वाऽऽम्रसालवने स्थितः । तत्र मित्र श्री श्रावकेण 'निहवोऽयम्' इति ज्ञात्वा तत्प्रतिबोधनार्थं गत्वा निमन्त्रितः - 'यद् मदीयगृहे प्रकरणमद्य तत्र भवद्भिः स्वयमागन्तव्यम्' । ततो गतास्ते तद्गृहे । तेन च तत्र तिष्यगुप्तमुपवेश्य महान्तं संभ्रममुपदर्शयता तत्पुरतो भक्ष्यभोज्याऽन्न-पान व्यञ्जन-वस्त्रादिवस्तुनिचया विस्तारिताः । ततस्तेषां मध्ये सर्वत्रान्यावयवान् गृहीत्वा प्रतिलाभतोऽसौ क्रूर - सिक्थादिना प्रतिलाभित इत्यर्थः । ततो भणत्यभिधत्ते - 'हे श्रावक ! विधर्मिताः किमिति त्वया वयमित्थम् ?' । ततः श्राद्धो भणति - 'नणु तुज्झमित्यादि' । 'मिच्छमिहरा मे त्ति' अन्यथा यदि नेदं सत्यम्, तदा सर्वमपि मिथ्या भवतां भाषितमिति ।। २३४८ ।। २३४९ ।। २३५० ।। अपि च, १ यतो वा तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥ २३४७ ॥ २ इति प्रज्ञापितो यावद् न प्रपद्यते स कृतस्ततो बाह्यः । तत आमलकल्पायां मिश्रिया सुखोपायम् ॥ २३४८ ॥ भक्षण-पान व्यञ्जन-वस्त्रान्तावयवलाभितो भणति । धावक ! विधर्मिता वयं कस्मादिति ततो भगति श्राद्धः ॥ २३४९ ॥ ननु तव सिद्धान्तः पर्यन्तावयवमात्रतोऽवयवी । यदि सत्यमिदं ततः का विधर्मता मिथ्यात्वमितरथा भवताम् ॥ २३५० For Personal and Private Use Only बृहद्वृत्तिः । ॥९५०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202