Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 148
________________ विशेषा० ॥९४६॥ Jain Educators Interna आत्मवादनामकं पूर्वमधीयानस्य तिष्यगुप्तस्यायं सूत्रालापकः सामायातस्तद्यथा- "ऐगे भंते ! जीवपएसे जीवे त्ति वत्तन्वं सिया ? | नो इणट्ठे समट्ठे । एवं दो, तिन्नि, जाब दस, संखेज्जा, असंखेज्जा भंते ! जीवपएसा जीव त्ति वत्तन्त्र सिया ? । नो इणद्वे समट्ठे, एगपणे त्रिणं जीवे नो जीवे त्ति वत्तव्वं सिया से केणं अडेणं १ । जम्हा णं कसिणे पडिपुने लोगागासपरसतुल्ले जीवे जीवेत्ति सिया, से तेणं अद्वेणं" इति । अमुं चालापकमधीयानस्य कस्यापि नयस्येदमपि मतम्, न तु सर्वनयानाम्' इत्येवमजानतस्तिष्यगुप्तस्य मिथ्यात्वोदयाद् दृष्टेर्दर्शनस्य मोहो विपर्यासः संजात इति ॥ २३३५॥ कथम् ? इत्याह गादओ पसा नो जीवो नो पएसहीणो वि । जं स जेण पुण्णो स एव जीवो पएसौ ति ॥ २३३६ ॥ यद् यस्मादेकादयः प्रदेशास्तावज्जीवो न भवति, “ऐगे भंते ! जीवपएसे" इत्याद्यालापके निषिद्धत्वात् एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रैवालापके निवारितत्वात् । ततस्तस्माद् येन केनापि चरममदेशेन स जीवः परिपूर्ण : क्रियते स एव प्रदेशो जीवो न शेषप्रदेशाः, एतत्सूत्रालापकप्रामाण्यादिति । एवं विप्रतिपन्नोऽसाविति ।। २३३६ ॥ ततः किम् ? इत्याह गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तप्परिणामो चिय जीवो कहमंतिमपएसो १ ॥ २३३७॥ 'एकोऽन्त्यपदेशो जीवः, तद्भावभावित्वाज्जीवत्वस्य' इत्यादि ब्रुवाणस्तिष्यगुप्तो गुरुणा वसुसूरिणाऽभिहितः- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवो न संमतः, ततस्तर्ह्यन्तिमो जीवप्रदेशः कथं केन प्रकारेण जीवः १ - न घटत एव सोऽपि जीव इत्यर्थः । कुतः ? तत्परिणाम इति कृत्वा । इदमुक्तं भवति भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्यपरिणामत्वात् प्रथमाद्यन्यप्रदेशवदिति ।। २३३७ ॥ १ एको भगवन् ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः । एवं द्वौ त्रयो यावद् दश, संख्येयाः, असंख्येया भगवन् ! जीवप्रदेशा जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः, एकप्रदेशोनोऽपि जीवो नो जीव इति वक्तव्यं स्यात् । अथ केनाथन ? यस्मात् कृत्स्नः परिपूर्ण छोकाकाशप्रदेशतुल्यो जीवो जीव इति वक्तव्यं स्यात् तेनार्थेन । २ एकादयः प्रदेशा नो जीवो नो प्रदेशहीनोऽपि । यत् ततः स येन पूर्णः स एव जीवः प्रदेश इति ॥ २३३६ ॥ ३ गुरुणाऽभिहितो यदि तव प्रथमप्रदेशो न संमतो जीवः । ततस्तत्परिणाम एव जीवः कथमन्तिमप्रदेशः १ ॥ २३३७ ॥ For Personal and Private Use Onty बृहद्वचिः ॥ ॥९४६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202