________________
विशेषा०
॥९३८ ॥
Jain Educator Intern
आरम्भक्रियासमय एवं कार्यमुत्पद्यत इति तवाभ्युपगमः । एतच्चायुक्तम् । कुतः १ । यस्माद् घटादिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्तनक्रियाकालो दृश्यत इति ।। २३११ ।।
दृश्यतां नाम दीर्घः क्रियाकालः, परं घटादि कार्यमारम्भक्रियासमय एव शिवकादिकाले वा द्रक्ष्यत इति चेत् । तदयुक्तम् । कुतः : इत्याह-
१
नारंभे च्चिय दीसइ न सिवादद्धाए दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतम्मि ||२३१२॥ -
नारम्भक्रियासमय एवं घटादि कार्य भवद् दृश्यते, नापि शिवाद्यद्धायां- शिवक-स्थास-कोश-कुशूलादिसमयेष्वपि न दृश्यत इत्यर्थः । क तर्हि दृश्यते ? इत्याह- 'तदंते' दीर्घक्रियाकालस्यान्ते घटादिकार्य भवद् दृश्यते । तस्माद् न क्रियाकाले कार्य युक्तम्, तस्य तदानीमदर्शनात् । तदन्ते तु दीर्घक्रियाकालस्यान्ते युक्तं कार्यम्, तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेवेदम् । इति जमालपूर्वपक्ष: ।। २३१२ ॥
अत्र स्थविराः प्रतिविदधति स्म । कथम् १ इत्याह
"थेराण मयं नाकयमभावओ कीरए खपुष्पं व । अह व अकथं पि कीरइ कीरउ तो खरविसाणं पि ॥२३१३॥ स्वराः श्रुद्धा गीतार्थाः साधवस्तेषां मतं- कुप्ररूपणां कुर्वन्तं जमालि त एवं प्रज्ञापयन्तीत्यर्थः- नाकृतमविद्यमानं घटादिकार्य क्रियते, असवात्, आकाशकुसुमवत् । अथाकृतमविद्यमानमपि क्रियते, क्रियतां तर्हि खरविषाणमपि, अकृतत्वाविशेषादिति ॥ २३१३||
यदुक्तम्- 'कीर निच्चं न य समत्ती' इत्यादि, तत्राह
"निच्च किरियाइदोसा नणु तुल्ला असइ कहतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ? ॥ २३१४ || नन्वसत्यविद्यमाने वस्तुनि करणक्रियाभ्युपगमे नित्यक्रियादिदोषाः, आदिशब्दात् क्रियाऽपरिसमाप्ति क्रियावैफल्यपरिग्रहः, आवयोस्तुल्याः समाः, यथा कृतपक्षे त्वया दत्तास्तथाऽकृतपक्षेऽप्यापतन्तीत्यर्थः । किं तुल्या एव । नेत्याह- कष्टतरका वा । विद्यमाने
१ नारम्भ एव दृश्यते न शिवाद्यद्वायां दृश्यते तदन्ते । ततो नहि क्रियाकाले युक्तं कार्यं तदन्ते ॥ २३१२ ॥
२ स्थविराणां मतं नाकृतमभावतः क्रियते खपुष्पमिव । अथ वाऽकृतमपि क्रियते क्रियतां ततः खरविषाणमपि ॥ २३१३ ॥ ३ गाथा २३१० ॥ ४ नित्यक्रियादिदोषा ननु तुल्या असति कष्टतरका वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि १ ।। २३१४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥९३८ ॥
www.jainelibrary.org