________________
विशेषा०
॥९३९॥
Jain Education Intern
हि वस्तुनि पर्याय विशेषाधानद्वारेण कथञ्चित् करणक्रियायुपपद्यत एव यथा 'आकाश कुरु, पादौ कुरु, पृष्ठं कुरु' इत्यादि । अविद्यमाने तु सर्वथा नायं न्यायः संभवति, सर्वथाऽसत्त्वात् खरविषाणवदिति । यदि च पूर्व कारणावस्थायामभूतमसत् कार्य जायते, मृत्पिण्डाद् घटवत् खरविषाणमपि जायमानं किं न दृश्यते, असच्चाविशेषात् ? । अथ खरविषाणं भवद् न दृश्यते, तर्हि घटोsपि तथैवास्तु विपर्ययो वेति ॥ २३१४ ।।
यदुक्तम्- "दीसह दीहो य जओ' इत्यादि । तत्राह -
पेइसम उप्पन्नाणं परोप्परविलक्खाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं त्थ कुंभस्स ? ॥ २३१५॥
यदि नाम प्रतिसमयोत्पन्नानां परस्पर विलक्षणस्वरूपाणां सुबद्दीनां शिवक-स्थास- कोश-कुशूलादिकार्यकोटीनां क्रियाकाल-निष्ठाकालयारेकत्वेन प्रतिप्रारम्भसमय निष्ठा प्राप्तानां दीर्घक्रियाकालो दृश्यते, तर्हि कुम्भस्य घटस्य किमत्रायातम् ? । इदमुक्तं भवति - मृदानयन-मर्दन-पिण्डविधानादिकालः सर्वोऽपि घटनिर्वर्तनक्रियाकाल इति तवाभिप्रायः । अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्येव कार्याण्यारभ्यन्ते, निष्पाद्यन्ते च, कार्यस्य कारणकाल-निष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारभ्यते, तत्रैव च निष्पद्यते इति कोऽस्य दीर्घो निर्वर्तनक्रियाकालः १ इति ।। २३१५ ।।
अथान्यप्राक्तनकार्य समयेष्वपि घटः किं न दृश्यते १ इत्याह
अन्नारंभ अन्नं किह दीसउ जह घडो पडारंभे । सिक्कादओ न कुंभो किह दीसए सो तदाए ? || २३१६॥
अन्यस्य शिवकादेरारम्भेऽन्यद् घटलक्षणं कार्य कथं दृश्यते । न हि पटारम्भे घटः कदाचिदपि दृश्यते । अतः किमुच्यते'नीरंभे च्चिय दीसह त्ति' । शिवकादयोऽपि कुम्भरूपा न भवन्ति, किन्तु ततोऽन्य एवेति कथं तदद्धायामप्यसौ कुम्भो दृश्यते ? । अत एव तदप्यज्ञतया प्रोच्यते 'नै सिवादद्धाए' इति ।। २३१६ ।।
यत्क्तम्- 'दीसह तदन्ते' इति, तत्राह -
"अंते चि आरडो जइ दीसइ तम्मि चेव को दोसो ? । अकयं व संपइ गए कह कीरउ कह व एस्सम्मि ? ॥ २३१७ ॥
१ गाथा २३११ ।
२ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमन कुम्भस्य ? | २३१५ ॥
३ अन्यारम्भेऽम्यत् कथं दृश्यतां यथा घटः पटारम्भे । शिवकादयो न कुम्भः कथं दृश्यते स तददायाम् ? || २३१६ ॥ ४ गाथा २३१२ । ५] अन्त एवारब्धो यदि दृश्यते तस्मिन्नेव को दोषः ? । अकृतं वा संप्रति गते कथं क्रियतां कथं वैष्यति ? ।। २३१७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥९३९॥
www.jainelibrary.org