________________
विशेषा
॥९४०॥
___ अन्त एव क्रियाक्षणे प्रारब्धो घटो यदि तत्रैव दृश्यते तर्हि को दोषः ?- न कश्चिदित्यर्थः । यदुक्तम्- 'तो नहि किरियाकाले' इत्यादि । तत्राह- 'अकयं वेत्यादि । यदि च संप्रति वर्तमानक्रियाक्षणे न कृतं कार्यमितीष्यते तदा गतेऽतिक्रान्ते, एष्यति- अनागते च क्रियाक्षणे कथं नाम तत् कार्य क्रियताम् ?- न कथञ्चिदित्यर्थः । तथाहि- नातीत-भविष्यक्रियाक्षणी कार्यकारको, विनष्टा-ऽनुत्पन्नत्वेनासचात् , खरविषाणवत् । अतः कथं क्रियान्ते कार्य स्यात् । । तस्मात् क्रियमाणमेव कृतमिति । यदि च क्रियमाणमपि न कृतम् , क नर्हि कृतमिति वक्तव्यम् । क्रियाविगम इति चेत् । तदयुक्तम्, तदानीं क्रियाया असत्वात् । तदसत्वेऽपि च कार्योत्पत्ताविष्यमाणायां क्रियारम्भात् प्रागपि कार्योत्पत्तिः स्यात्, क्रियासचाविशेषात् । अथ संप्रतिसमय: क्रियमाणकालः, तदनन्तरस्तु कृतकालः, न च क्रियमाणकाले कार्यमस्ति, इत्यतः खल्वकृतं क्रियते न तु कृतमित्यभिधत्से । नन्वेतदिह प्रष्टव्योजसि किं भवतः कार्य क्रियया क्रियते, उत तामन्तरेणापि भवति । यदि क्रियया, तर्हि कथं साऽन्यत्र समये, अन्यत्र तु कार्यम् ? । न हि खदिरे च्छेदनक्रियायां पलाशे च्छेदः समुपजायते । किञ्च, 'क्रियोपरमे कार्य भवति, न तु क्रियासद्भावे' इति वदता प्रत्युत कार्योत्पत्तेर्विघ्नहेतुः क्रियेति प्रतिपादितं भवति । ततश्च कारणमप्यकारणमिति प्रत्यक्षादिविरोधः । अथ क्रियामन्तरेण कार्यमुपजायत इत्यभ्युपगम्यते, तर्हि घटादिकार्यार्थिनां निरर्थकः सर्वोऽपि मृन्मर्दन-पिण्डविधान-चक्रारोपणभ्रमणादिक्रियारम्भः । अतो न कर्तव्यं मुमुक्षुभिरपि तपः-संयमादिक्रियानुष्ठानम् , तदन्तरेणापि मुक्तिसुखसिद्धेः । न चैवम् । तस्मात् क्रियाकाल एव कार्यम् , न पुनस्तदुपरम इति ॥ २३१७ ॥ । पुनरप्याइ-ननु मृदानयन-तन्मर्दनादिकश्चक्रादिच्छिन्नताकरणकार्यपर्यन्तो दीर्घ एवं मया घटनिवर्तनक्रियाकालोऽनुभूयते, | न तु यत्रैव समये प्रारभ्यते तत्रैव निष्पद्यत इत्यनुभूयते । तदेतत् कथम् ? इत्याह
पेइसमयकज्जकोडीनिरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकालं थूलमई ! घडम्मि लाएसि ॥२३१८॥ | हन्त ! यद्यपि प्रतिसमयमन्यान्यरूपाः कार्यकोटयस्तत्रोत्पद्यन्ते, तथापि तनिरपेक्षस्त्वं-निष्पयोजनत्वेनाविवक्षितत्वादुत्पद्यमाना
अपि तास्त्वं न. गणयसीत्यर्थः । कुतः । यस्माद् घटगताभिलाषोस, सप्रयोजनत्वेन तस्यैव प्रधानतया विवक्षितत्वात् । 'घट इहोत्पत्स्यते' इत्येवं तत्रैव तवाभिलाषः, अतः प्रतिसमयकार्यकोटीनामदर्शकत्वेन स्थूलमते ! प्रतिसमयकार्यसंबन्धिनमपि कालं सर्वमपि घटे लगयसि- 'सर्वोऽप्ययं घटोत्पत्तिकालः' इत्येवमध्यवस्यास त्वमित्यर्थः, अतो मिथ्यानुभवोऽयं तवेत्यभिमाया, एकसामयिक एव९४०॥ १ गाथा २३१२ ॥ २ प्रतिसमयकार्यकोटी निरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगयसि ॥ २३१८ ॥
Jain Educatiora intern
For Personal and
Use Only