________________
विशेषा०
॥९३७॥
Jain Education Internatio
"चलमाणे चलिए, उईरिज्जमाणे उईरिए, बेइज्जमाने वेइए" इत्यादि, तत् सर्व मिथ्येत्यभिप्राय इति ।। २३०८ ॥ अपिच, क्रियमाणकृताभ्युपगमे बहवो दोषाः । क एते १ इत्याह-
जेस्सेह कज्जमाणं कयं ति तेणेह विज्जमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥२३०९॥ इह यस्य वादिनः 'क्रियमाणं वस्तु कृतम्' इत्यभ्युपगमः, तेनेह विद्यमानस्य सतः करणरूपाः क्रियाः करणक्रियाः प्रतिपन्ना अङ्गीकृताः । तथा च सति वक्ष्यमाणानां बहूनां दोषाणां प्रतिपत्तिरभ्युपगमरूपा कृता भवतीति ।। २३०९ ।।
तथाहि-
कैयमिह न कज्जमाणं सब्भावाओ चिरंतनघडोव्व । अहवा कयं पि कीरइ कौरउ निच्चं न य समत्ती ||२३१०॥
इह क्रियमाणं कृतं न भवतीति प्रतिज्ञा । सद्भावात् - कृतस्य विद्यमानत्वादिति हेतुः । चिरन्तनघटवदिति दृष्टान्तः । विपर्यये बाधकमाह- अथ कृतमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यमनवरतमेव क्रियतां कृतत्वाविशेषात् । एवं च सति न कदाचिदपि कार्यक्रियापरिसमाप्तिरिति ।। २३१० ।।
किमेतावन्मात्रमेव दूषणम् १ नेत्याह-
किरिया फलं ति य पुव्त्रमभूयं च दीसए होंतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ २३११||
यदि च क्रियमाणं कृतमिष्यते, तर्हि घटादिकार्यार्थ या मृन्मर्दन चक्रभ्रमणादिका क्रिया तस्या वैफल्यं प्राप्नोति, तत्काले कार्यस्य कृतत्वाभ्युपगमात् । प्रयोगः- इह यत् कृतम्, तत्क्रिया विफलैब, यथा चिरनिष्पन्नघटे, कृतं चाभ्युपगम्यते क्रियाकाले कार्यम्, ततो विफला तत्र क्रियेति । किञ्च क्रियमाणकृतवादिना कृतस्य विद्यमानस्य क्रियेति प्रतिपादितं भवति । एवं च प्रत्यक्षविरोधः यस्मादुत्पत्तिकालात् पूर्वमभूतमविद्यमानमेत्र कार्य भवज्जायमानं दृश्यत उत्पत्तिकाले, तस्मात् क्रियमाणमकृतमेवेति । किश्व,
११८
१ चल्यमाने चलितम्, उदीर्यमाणे उदीरितम्, वेद्यमाने वेदितम् । भगवत्यां प्रथमशतके प्रथमोद्देशे ।
२ यस्येह क्रियमाणं कृतमिति तेनेह विद्यमानस्य । करणक्रिया प्रपत्ना तथा च बहुदोषप्रतिपत्तिः ॥ २३०९ ॥
३ कृतमिह न क्रियमाणं सद्भावाश्चिरन्तनघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ॥ २३१० ॥
४ क्रियावैफल्यामिति च पूर्वमभूतं च दृश्यते भवत् । दृश्यते दर्धिश्च यतः क्रियाकालो घटादीनाम् ॥ २३११ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
॥९३७॥
ww.jainelibrary.org