________________
विशेषा
सादाचा
॥९३६॥
दाहज्वराभिभूतेन जमालिना पृष्टम्-'संस्तृतः संस्तारको नवा?' इति । साधुभिश्च संस्तृतपायत्वादर्धसंस्तृतेऽपि प्रोक्तम्-'संस्तृतः' इति । ततोऽसौ वेदनाविहलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं तद् दृष्ट्वा क्रुद्धः 'क्रियमाणं कृतम्' इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास । ततः स्थविरैर्वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुध्यते तदा गतास्तं परित्यज्य भगवत्समीपे । अन्ये तु तत्समीप एव स्थिताः । सुदर्शनापि तदा तत्रैव श्रावकढङ्ककुम्भकारगृह आसीत् । जमाल्यनुरागेण च तन्मतमेव प्रपन्ना ढङ्कमपि तद् ग्राहयितुं प्रवृत्ता। ततो ढङ्केन 'मिथ्यात्वमुपगतेयम्' इति ज्ञात्वा प्रोक्तम्- 'नेदृशं किमपि वयं जानीमः' । अन्यदा चापाकानिमध्ये मृद्भाजनोद्वर्तन-परावर्तने कुर्वताङ्गारकमेकं प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाच्यञ्चलो दग्धः । ततस्तंया प्रोक्तम्- 'श्रावक ! किं त्वया मदीयसंघाटी दग्धा ।' तेनोक्तम्- 'ननु दह्यमानमदग्धम्' इति भवतां सिद्धान्तः, ततः क केन त्वदीया संघाटी दग्धा? । इत्यादि तदुक्तं परिभाव्य संबुद्धाऽसौ 'सम्यक् प्रेरिताऽस्मि' इत्यभिधाय मिथ्या दुष्कृतं ददाति । जमालिं च गत्वा प्रज्ञापयति । यदा चासौ कथमपि न प्रज्ञाप्यते तदासौ सपरिवारा, शेषसाधयश्चैकाकिनं जमालिं मुक्त्वा भगवत्समीपं जग्मुः । जमालिस्तु बहुजनं व्युग्राह्यानालोचितप्रतिक्रान्तः कालं कृत्वा किल्विपिकदेवेषूत्पन्नः । व्याख्याप्रज्ञप्त्यागमाचैतच्चरितं विस्तरतोऽबसेयमिति । एष संग्रहगाथाभावार्थः । अक्षरार्थस्त्वयम्-- 'जेहा सुदंसण जमालिणोज्ज त्ति' ज्येष्ठा, सुदर्शना, अनवद्याङ्गीति जमालिगृहिणीनामानि । अन्ये तु व्याचक्षते- 'ज्येष्ठा महती सुदर्शना नाम भगवतः श्रीमन्महावीरस्य भगिनी तस्याः पुत्रो जमालिः, अनवद्याङ्गी नाम भगवतो दुहिता जमालिगृहिणी' इति । श्रावस्त्यां नगर्या तैन्दुकोद्याने 'जमालिनिवदृष्टिरुत्पन्ना' इति वाक्यशेषः । तत्र पञ्च शतानि साधूनां, सहस्रं चार्यिकाणाम् , एतेषां मध्ये यः स्वयं न प्रतिबुद्धस्तं जमालिं मुक्त्वा ढङ्केन प्रतियोधितः ॥ इति नियुक्तिगाथासप्तकार्थः ।। २३०७॥
अथ भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिनिहवो जातस्तं प्रकटयनाह
सक्खं चिय संथारो न कजमाणो कउ त्ति मे जम्हा। बेइ जमाली सव्वं न कज्जमाणं कयं तम्हा ॥२३०८॥
'मे जम्ह त्ति' यस्माद् मम साक्षात् प्रत्यक्षमेवेदं वृत्तं यदुत- कम्बलास्तरणरूपः संस्तारकः क्रियमाणो न कृतः संस्तीर्यमाणो न संस्तृतः। तस्माजपालिब्रवीति- सर्वमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुच्यते । ततो भगवत्यादिषु यदुक्तम्-
. साक्षादेव संस्तरो न क्रियमाणः कृत इति मम यस्मात् । ब्रवीति जमालिः सवै न क्रियमाणं कृतं तस्मात् ॥ २३०८ ॥
स
राससससससहरका
॥९३६।।
www.janabrary.org