SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विशेषा. ।।९३५॥ ASRASCARAGITEN शते 'वर्षाणाम्' इति गम्यते । तथा, अष्टाविंशत्यधिक च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि, पश्च शतानि चतुरशीत्यधिकानि, पट् चैव शतानि नवोत्तराणि भवन्ति । एतावता व्यवधानकालेन ज्ञानोत्पत्तेरारभ्याधौ द्वौ निहवौ समुत्पन्नौ । शेपास्तु षड् भवन्ति श्रीमन्महावीरे निते निर्वाणकालादारभ्य उक्तशेषेण यथोक्तेन व्यवधानकालेनोत्पन्नाः । इदमुक्तं भवति- श्रीमन्महावीरस्य केवलोत्पत्तेश्चतुर्दशभिर्वरतिक्रान्तर्बहुरताः समुत्पन्नाः, षोडशभिवयंतिक्रान्तै वप्रदेशाः समुत्पन्नाः । भगवत एव निर्वाणकालात शेपेण चतुर्दशाधिकवर्षशतद्वयादिना कालेनातिक्रान्तेन शेषा अव्यक्तादयो निहवाः समुत्पन्ना इति ।। २३०४ ॥ २३०५॥ अथ संपिण्ड्य सामान्यतः सूचितमेवार्थमेकैकनिह्नवं प्रति व्यक्तितो निर्दिशन्नाह-- 'चोदस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥२३०६॥ चतुर्दश वर्षाणि तदा जिनेन श्रीमन्महावीरेणोत्पादितस्य केवलज्ञानस्य ततोऽत्रान्तरे बहुरतनिह्नवानां दर्शनं दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति ॥२३०६॥ सा च यथोत्पन्ना तथा दिदर्शयिपुः सग्रहगाथामाह जिहा सुदंसण जमालिणोज सावातिंदुगुजाणे । पंच सया य सहस्सं ढंकेण जमालि मोत्तूणं ॥२३०७॥ व्याख्या- अत्र भावार्थस्तावत् कथानकेनोच्यते- इहैव भरतक्षेत्रे कुण्डपुरं नाम नगरम् । तत्र भगवतः श्रीमन्महावीरस्य । भागिनेयो जमालि म राजपुत्र आसीत् । तस्य च भार्या श्रीमन्महावीरस्य दुहिता । तस्याश्च ज्येष्ठेति वा, सुदर्शनेति वा, अनवद्याङ्गीति वा नामेति । तत्र पश्चशतपुरुषपरिवारो जमालिभंगवतो महावीरस्यान्तिके प्रवज्यां जग्राह । सुदर्शनापि सहस्रस्त्रीपरिवारा तदनु प्रबजिता। ततश्चैकादशस्वङ्गेश्वधीतेषु जमालिना भगवान् विहारार्थ मुत्कलापितः । ततो भगवता तूष्णीमास्थाय न किश्चित् प्रत्युत्तरमदायि । तत एवममुत्कलितोऽपि पश्चशतसाधुपरितो निर्गतः श्रीमन्महावीरान्तिकात् । ग्रामानुग्रामं च पर्यटन् गतः श्रावस्तीनगर्याम् । तत्र च तैन्दुकाभिधानोद्याने कोष्टकनाम्नि चैत्ये स्थितः । ततश्च तत्र तस्यान्त-प्रान्ताहारैस्तीत्रो रोगातङ्कः समुत्पन्नः । तेन च न शक्नोत्युपविष्टः स्थातुम् । ततो बभाण श्रमणान्- 'मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत येन तत्र तिष्ठामि । ततस्तैः कर्तुमारब्धोऽसौ । बाढंच १ चतुर्दश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य । ततो बहुरतानां दृष्टिः श्रावस्त्यामुत्पन्ना ।। २३०६ ॥ २ ज्येष्ठा सुदर्शना जमालिरनवद्या श्रावस्ततिन्दुकोद्याने । पञ्च शतानि च सहस्र बन जमालि मुक्त्वा ॥ २३०७॥ PERSA BASISA ९३५॥ Jan Education interna For Personal and Price Use Only W ww.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy