________________
विशेषा०
॥९३४॥
Jain Education Internati
बैर जमालिपभवा जीवपएसा य तीसगुत्ताओ । अव्यत्ताऽऽसाढाओ सामुच्छेआ असमित्ताओं ॥२३०१ ॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गोट्ठमाहिल पुडुमबद्धं परूविंति ॥ २३०२ ॥ बहुरता जमालिप्रभवाः, जमालेराचार्यात् प्रभव उत्पत्तिर्येषां ते जमालिमभवाः । जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः । अव्यक्ता आषाढात् । सामुच्छेदा अश्वमित्रादिति । गङ्गाद् द्वैक्रियाः । षडुलूकात् त्रैराशिकानामुत्पत्तिः । स्थविराय गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति 'कर्म' इति गम्यते । 'परुविसु वा' इति पाठान्तरं वा । ततो गोष्ठा माहिलादवद्धिका जाता इति सामर्थ्याद् गम्यत इति ।। २३०१ ।। २३०२ ॥
येषु स्थानेष्वेते समुत्पन्नास्तानि क्रमेणाह -
साथी उसमपुर से अम्बिआ मिहिल उल्लुगातीरं । पुरमंतरांजे दसउर रहवीरपुरं च नयराई || २३०३ ॥
श्रावस्ती, ऋषभपुरम्, श्वेतविका, मिथिला, उल्लुकातरिम्, पुनरन्तरञ्जिका, दशपुरम् रथवीरपुरं चेति । एतान्यष्टौ नगराणि निवानां यथायोगमुत्पत्तिस्थानानि बोद्धव्यानि । अष्टमं नगरं द्रव्यलिङ्गमात्रेणापि भिन्नानां सर्वापलापिनां महामिथ्यादृशां वक्ष्यमाणानां बोटिकनिह्नवानां लाघवार्थमुत्पत्तिस्थानमुक्तमिति ।। २३०३ ।।
अथ भगवतः समुत्पन्नकेवलज्ञानस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इत्येतत् प्रतिपादयन्नाह - चोद्दस सोलस वासा चोद्दा-वीसुत्तरा य दुण्णि सया । अट्ठावीसा य दुवे पंचेव सया य चोआला ॥२३०४|| पंच सया चुलसीओ छच्चेव सया नवुत्तरा हुंति । नाणुप्पत्तीए दुवे उप्पन्ना निव्वुए सेसा ||२३०५ || चतुर्दश वर्षाणि । तथा षोडश वर्षाणि । तथा 'चोदा वीसुत्तरा य दृष्णि सय त्ति' चतुर्दशाधिके द्वे शते, विंशत्युत्तरे च द्वे
१ बहुरता जमालिप्रभवा जीवप्रदेशाश्च तिष्यगुप्तात् । अव्यक्ता आषाढात् सामुच्छेदा अश्वमित्वात् ॥ २०३१ ॥ गङ्गाद् द्वैक्रियाः षडुलुकात् त्रैराशिकानामुत्पत्तिः । स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं च प्ररूपयन्ति ॥ २३०२ ॥ २ श्रावस्ती ऋषभपुरं श्वेतविका मिथिलोल्लुकातीरम् । पुरमन्तरञ्जिका दशपुरं रथवीरपुरं च नगराणि ॥ २२०३ ॥
३ चतुर्दश पोडश वर्षाणि चतुर्दश विंशत्युत्तरे च द्वे शते । अष्टाविंशत्या च द्वे पञ्चैव शतानि च चतुत्वा ॥ २३०४ ॥ पञ्च शतानि चतुरशीत्या पडेव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्ती द्वारपन्न निर्वृते शेषाः ॥ २३०५ ॥
For Personal and Private Use Only
बृहद्रत्तिः ।
॥९३४ ||
www.jainelibrary.org