________________
विशेषा.
बृहदृक्तिः ।
॥९३३॥
अथवेति प्रस्तावनान्तरसूचकः । परः प्रेरयति- ननु नयानुयोगनिद्भवात् कथमार्यरक्षितगुरवो न-निझा भण्यन्ते । अत्रोत्तरम्- यतो 'न सन्ति नयानुयोगाः' इति तेन जल्पन्ति, नापि मिथ्यात्वभावनया मिथ्याभिनिवेशेन ते किश्चिद् वदन्ति । किन्तु प्रवचनहितार्थमेव नयानुयोगगोपनं तैर्विहितम् । यः पुनर्मिथ्याभिनिवेशादेकमपि जिनोक्तं पदं निनुते स बहुरतादिवज्जमाल्यादिवद् निर्व एवेति ॥ २२९८ ।। २२९९ ।।
के पुनस्ते बहुरतादयः ? इत्याह
बहुरय पएस अव्वत्त सामुच्छा दुग तिग अबद्धिआ चेव । एएसिं निग्गमणं वोच्छामि अहाणुपुवीए॥२३००॥
'बहरय त्ति' एकस्मिन् क्रियासमये वस्तु नोत्पद्यते, किन्तु बहुभिः क्रियासमयः, इत्यभ्युपगमाद् बहुषु समयेषु रताः सक्ता बहुरता दीर्घकालवस्तुमभवप्ररूपका इत्यर्थः । 'पएस त्ति' पूर्वपदलोपाजीवप्रदेशा इति द्रष्टव्यम् , यथा वीरो महावीर इति । एक एव चरमप्रदेशो जीव इत्यभ्युपगमाज्जीवः प्रदेशो येषां ते जीवपदेशा निदवाश्चरमप्रदेशजीवप्ररूपिण इति हृदयम् । 'अव्वत्त ति' उत्तरपदलोपादव्यक्तमता यथा भीमो भीमसेन इति । न ज्ञायतेत्र कोऽपि संयतः, कोऽप्यसंयत इत्यव्यक्तस्यैव सर्वस्याभ्युपगमाद्न व्यक्तमव्यक्तमस्फुटम् , अव्यक्तं मतं येषां तेऽव्यक्तमताः संयतासंयताधवगमे संदिग्धबुद्धय इत्यर्थः । 'समुच्छ त्ति' एकदेशेन समुदायस्य गम्यमानत्वादुत्पत्त्यनन्तरमेव सामस्त्येन प्रकर्षतश्छेदः समुच्छेदो वस्तुविनाशः, समुच्छेदमधीयते, तद्वेदिनो वा, इत्यण्प्रत्यये सामुच्छेदाः क्षणक्षयिभावप्ररूपका इत्यर्थः । 'दुग त्ति' उत्तरपदलोपादेकस्मिन्नपि समये क्रियाद्वयानुभवाभ्युपगमाद् द्विक्रियाः, एकसमये द्वे क्रिये समुदिते द्विक्रियम् , तदधीयते तद्वदिनो वा क्रियाः कालभेदेन क्रियाद्वयानुभवप्ररूपिण इति भावः। 'तिग त्ति' त्रैराशिकाः, जीवा-जीवनोजीवभेदात् त्रयो राशयः समाहृतास्त्रिराशि तत्पयोजनमेषां ते त्रैराशिका जीवा-जीव-नोजीवराशित्रयख्यापका इति तात्पर्यम् । 'अबदिअ त्ति' स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमवद्धमेव येषामस्ति वदन्ति वेत्यवदिकाः स्पृष्टकर्मविपाकमरूपका इत्यर्थ इति । एते सप्त निवाः । एतेषां निर्गमनमुत्पत्तिमानुपूर्व्या यथाक्रमं वक्ष्ये ॥ इति गाथापचकार्थः ।। २३००॥ अथ येभ्यो ये निवाः समुत्पन्नास्तदेतदाह
। बहुरता प्रदेशा अव्यक्ता सामुच्छेदा दैक्रियास्त्रैराशिका भवद्धिकाश्चैव । एतेषां निर्गमनं वक्ष्येऽथानुपूर्ध्या ॥ २३०० ॥
॥९३३॥
Jan Education Internati
For Personal and Price Use Only