________________
विशेषा
॥९३२॥
इत्युक्तम् , ततश्च महाकल्पश्रुतादीनामपि दृष्टिवादादुत्य महिर्षिभिः प्रतिपादितत्वेनर्षिभाषितत्वाद् धर्मकथानुयोगत्वप्रसङ्गे चरणकरणानुयोगत्वप्रतिपादनार्थमाह- 'जं चेत्यादि' यच्च महाकल्पश्रुतं, यानि च शेषाणि कल्पादीनि च्छेदमूत्राणि तान्यपि सर्वाणि चरणकरणानुयोग इति मन्तव्यानि । कुतः १ । यस्मात् तान्यपि कालिकार्थ उपगतानि कालिकश्रुतेऽन्तर्भूतानीत्यर्थः । इति नियुक्तिगाथाद्वयार्थः ॥ २२९४ ॥ २२९५ ॥
अथ 'बहुरय पएस' इत्यादिवक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनां कर्तुमाहऐवं चिहियपुहत्तेहिं रक्खियज्जेहिं पूसमित्तम्मि । ठविए गणिम्मि किर गोट्ठमाहिलो पडिनिवेसणं ॥२२९६।।
सो मिच्छत्तोदयओ सत्तमओ निण्हवो समुप्पण्णो । के अन्ने छ ब्भणिए पसंगओ निण्हउप्पत्ती ॥२२९७॥
एवमुक्तपकारेण विहितानुयोगपृथक्त्वैरार्यरक्षितमूरिभिर्दिवं यियासुभिघृत-तैल-बल्लघटादिप्ररूपणां सकलगच्छसमक्षं विधाय दुर्बलिकापुष्पमित्र गणिन्याचार्ये स्थापित यो मथुरानगर्यामन्यतीर्थिकेन सह 'वचवी' इति कृत्वा वाददानार्थ सूरिभिर्निजमातुलको गोष्ठामाहिलः प्रेषित आसीत् , स यशःशेषेषु मूरिषु प्रतिवादिनं जित्वा समागतः सन् 'मामेवंभूतं वचस्विनं परित्यज्यान्योऽयमृषिर्मूककल्पः सूरिभिराचार्य उपयोशितः, तत्पश्य कीदृशं तैः कृतम्' इत्यभिप्रायतः, तथा तां च घृतघटादिप्ररूपणां श्रुत्वा प्रतिनिवेशेन गाढानुशयेन यो मिथ्यात्वोदयो जातस्तस्मात् स गोष्ठामाहिलः सप्तमो निद्भवः समुत्पन्नः । ननु यद्ययं सप्तपः, तर्हि केऽन्ये षड् ? इत्या. शङ्कय प्रसङ्गतो निदवोत्पत्तिर्भण्यते । इत्येका प्रस्तावना ।। २२९६ ।। २२९७ ।।
अथवा, अन्यथाऽभिधीयते, तद्यथाअहवा चोएइ नयाणुओगनिण्हवणओ कहं गुरवो। न हि निण्हवति, भण्णइ जओन जपंति नत्थि त्ति ॥२२९८॥ न य मिच्छभावणाए बयंति जो पुण पयं पि निण्हवइ। मिच्छाभिनिवेसाओ स निण्हवो बहुरयाइव्व ॥२२९९।। १ गाथा २३०१।२ एवं विहितपृथक्त्यै रक्षिताः पुष्पमित्रे । स्थापिते गणिनि किल गोष्ठामाहिला प्रतिनिवेशेन ॥ २२९६ ।।
स मिथ्यात्वोदयतः सप्तमको निहवः समुत्पन्नः । केऽन्ये षड् भणिताः प्रसङ्गतो निहवोत्पत्तिः ॥ २२९७ ॥ ३ अथवा चोदयति नयानुयोगनिहवनतः कथं गुरवः । न हि निववा इति, भण्यते यत्रो न जल्पन्ति न सन्तीति ॥ २२९८ ॥ न च मियाभावनया वदन्ति यः पुनः पदमपि निनुते । मिथ्याभिनिवेशात् स निह्नवो बहुरतादिरिव २९९ ॥
॥९३२॥
Jan Education Inter
For Personal and Price Use Only