________________
विशेषा० ॥९३१॥
तदेवमनुयोगपृथक्करणे तथा विभागकरणे च सामान्येनोक्तेऽपि कारणे पुनरपि नयाविभागे विशेषतः कारणमाह- 'सविसयेत्यादि । इह शिष्यास्विविधाः, तद्यथा- अपरिणामाः, अतिपरिणामाः, परिणामाश्चेति । तत्राविपुलमतयोगीतार्था अपरिणतजिनवचनरहस्या अपरिणामाः । अतिव्याप्त्याऽपवाददृष्टयोऽतिपरिणामाः। सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तयः परिणामाः। तत्र येऽपरिणामास्ते नयानां यः स्वः व आत्मीय आत्मीयो विषयः 'ज्ञानमेव श्रेयः क्रिया चाश्रेयः' इत्यादिकस्तमश्रद्दधानाः। ये त्वतिपरिणामास्तेऽपि यदैवैकेन नयेन क्रियादिकं वस्तु प्रोक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्यादिवस्तुप्रतिपादकनयानां च परस्परविरोधं मन्वाना मिथ्यात्वं मा गच्छेयुः। येऽप्युक्तस्वरूपाः परिणामाः शिष्यास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयाख्यायमानये सूक्ष्माः मूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता असमर्था भवेयुरिति मत्वा तत आयरक्षितमूरिभिः 'कालिक'- इत्युपलक्षणत्वात् सर्वस्मिन्नपि श्रुते नयविभागो विस्तरव्याख्यारूपो न कृतः ॥ इति गाथापञ्चकार्थः ॥ २२८९ ।। २२९० ॥ २२९१ ॥ २२९२ ॥ २२९३ ।।
कः पुनरयं चरणकरणाद्यनुयोगानां श्रुतविभागः ? इत्याहकालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वो य दिहिवाओ चउत्थओ होइ अणुओगो ॥२२९४॥ जं च महाकप्पसुयं जाणि अ सेसाणि छेअसुत्ताणि । चरणकरणाणुओगो त्ति कालियत्थे उवगयाणि ॥२२९५॥
इहैकादशाङ्गरूपं सर्वमपि श्रुतं कालग्रहणादिविधिनाऽधीयत इति कालिकमुच्यते । तत्र प्रायश्चरण-करणे एव प्रतिपाद्यते । अत आयरक्षितमूरिभिस्तत्र चरणकरणानुयोग एवं कर्तव्यतयानुज्ञातः, न तु सन्तोऽपि शेषा धर्मकथाद्यनुयोगात्रय इति, अतोऽनुयोगतद्वतोरभेदोपचारात् कालिकश्रुतं प्रथमश्चरणकरणानुयोगो व्यपदिश्यते । तथा, ऋषिभाषितान्युत्तराध्ययनानि तेषु च नमि-कपिलादिमहर्षीणां संबन्धीनि पायो धर्माख्यानकान्येव कथ्यन्त इति धर्मकथानुयोग एव तत्र व्यवस्थापितः । सूर्यप्रज्ञप्त्या तु चन्द्र-सूर्य ग्रहनक्षत्रादिचारगणितमेव प्रायः प्रतिपाद्यत इति तत्र गणितानुयोग एवं व्यवस्थापितः । दृष्टिवादे तु सबस्मिन्नपि चालना-प्रत्यवस्थानादिभिर्जीवादिद्रव्याण्येव प्रतिपाद्यन्ते, तथा सुवर्ण-रजत-मणि-मौक्तिकादिद्रव्याणां च सिद्धयोभिधीयन्त इति द्रव्यानुयोग एव तत्र निरूपित इति । एवं चत्वारोऽप्यनुयोगाः श्रुतभेदेन स्थापिताः, प्रतिमूत्रं तत्करणं निषिद्धमित्यर्थः । ऋषिभाषितानि धर्मकथानुयोग
१ कालिकश्रुतं चर्षिभाषितानि तृतीयश्च सूरमज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थको भवस्यनुयोगः ॥ २२९४ ॥ यच महाकल्पश्रुतं यानि च शेषाणि च्छेदसूत्राणि । चरणकरणानुयोग इति कालिकार्थ उपगतानि ॥ २२९५ ॥
RRRRRRRRRIORS
॥९३१॥
PROCES
For Posod
e
On