________________
विशेषा.
बृहद्वति।
॥९३०॥
हाला
इति नियुक्तिगाथार्थः । 'माया य रु।सोमा' इत्यादि सर्व मूलावश्ककटीकालिखितार्यरक्षितकथानकादवसेयमिति ॥ २२८८ ।
भाष्यकारो 'देविंदवंदिएहि' इत्यादिभावार्थमाहनाऊण रक्खियज्जो मइ-मेहा-धारणासमग्गं पि । किच्छेण धरेमाणं सुयण्णवं पूसमित्तं पि ॥ २२८९ ॥ अइसयकओवओगो मइ-मेहा-धारणाइपरिहाणे । नाऊणमेस्सपुरिसे खेत्तं-कालाणुरूवं च ॥ २२९० ॥ साणुग्गहोऽणुओगे वीसुं कासी य सुयविभागेण । सुहगहणाइनिमित्तं नए य सुनिगहियविभागे॥२२९१॥ सविसयमसदहंता नयाण तम्मत्तयं च गिण्हंता । मण्णंता य विरोहं अपरिणामातिपरिणामा ॥२२९२॥ गच्छेज्ज मा हु मिच्छं परिणामा य सुहुमाइबहुभेए । होज्जाऽसत्ते घेत्तुं न कालिए तो नयविभागो॥२२९३॥
व्याख्या- स देवेन्द्रवन्दितः श्रीमानार्यरक्षितमूरिनिजशिष्यं दुर्बलिकापुष्पमित्रमपि कृच्छ्रेण श्रुतार्णवं धारयन्तं ज्ञात्वा विनेयवर्गे सानुग्रहो वक्ष्यमाणकालिकादिश्रुतविभागेन विष्वक् पृथक् चरण करणाद्यनुयोगान कार्षीदिति संबन्धः । कथंभूतं दुर्वलिकापुष्प| मित्रम् ? मति-मेधा-धारणासमग्रमपि, तत्र 'मनु बोधने मननं मतिरवबोधशक्तिः, मेधा-पाठशक्तिः, धारणा- अवधारणशक्तिः, ताभिः
समग्रं युक्तमपि । तथा, अतिशयज्ञानकृतोपयोगतया एष्यतो भविष्यतः पुरुषांश्च ज्ञात्वा । कथंभूतान् ? । मति-मेधा-धारणादिपरिहीणान् । तथा क्षेत्र-कालानुरूपं च ज्ञात्वा न केवलमनुयोगान् पृथगकापीत् , तथा नयांश्च नैगमादीन् 'अकात्'ि इति वर्तते । कथंभूतान् । सुष्टु- अतिशयेन निगृहितो व्याख्यानिरोधेन च्छन्नीकृतो विभागो व्यक्ततापादानरूपो येषां ते सुनिगृहितविभागास्तांस्तथाभूतान् । किमर्थम् । सुखग्रहणादिनिमित्तम् , आदिशब्दाद् धारणादिपरिग्रहः ।
EARTHA
आ०नि०पू० १३८ । २ ज्ञात्वा रक्षितार्यो मति मेधा-धारणासमग्रमपि । कृच्छ्रेण धारयन्तं श्रुतार्णवं पुष्पमित्वमपि ॥ २२८९ ॥
अतिशयकृतोपयोगो मति-मेधा-धारणादिपरिहीणान् । ज्ञात्वैष्यतः पुरुषान् क्षेत्र-कालानुरूपं च ॥ २२९० ॥ सानुग्रहोऽनुयोगे विष्वगकाषींच्च धुतविभागेन । सुखग्रहणादिनिमित्तं नयांश्च सुनिगृहितविभागान् ॥ २२५१ ॥ स्वविषयमश्रद्दधाना नयानां तन्मात्रकं च गृह्णन्तः । मन्वानाच विरोधमपरिणामा-ऽतिपरिणामाः ॥ २२९२ ॥ गच्छेयुर्मा खलु मिथ्यात्वं परिणामाश्च सूक्ष्मादिबहुभेदाः । भवेयुरशक्ता ग्रहीतुं न कालिके ततो नयविभागः ॥ २२९३ ॥
॥९३०॥
Jain Educationa.Inter
For Personal and Price Use Only