Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 120
________________ विशेषा० ॥९९८॥ Jain Education Interna वंजणमत्थे णत्थं च वंजणेणोभयं विसेसेइ । जह घडसहं चेट्ठावया तहा तं पितेव || २२५२ ॥ व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावतेद्वाच्येनार्थेन विशिनष्टि- स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रति- बृहद्वृत्तिः । पादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथा, अर्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयतिचेष्टापि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका, इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थ इति, एवमुभयं विशेषयति । शब्दमर्थेन, अर्थस्तु शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह - 'जह घडसद्दमित्यादि । इदमत्र हृदयम् - यदा योषिन्मस्तकारूढश्रेष्ठावानर्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः; अन्यदा तु वस्त्वन्तरस्येव तचेष्टाऽभावादघटत्वं घटध्वनेश्वावाचकत्वमिति । एवमुभयविशेषक एवंभूतनय इति ।। २२५२ ॥ एतदेव प्रमाणतः समर्थयन्नाह - सैदवसादभिधेयं तप्पच्चयओ पईव - कुम्भो व्व । संसय-विवज्जए-गत्त-संकराइप्पसंगाओ || २२५३ ॥ यथाsभिधायकः शब्दस्तथैवाभिधेयं प्रतिपत्तव्यमिति प्रतिज्ञा । तत्प्रत्ययत्वात्- तथाभूत एवार्थे ततः प्रत्ययसंभूतेरिति हेतु:, प्रदीपवत् कुम्भवद् वेति दृष्टान्तः । विपर्यये बाधकमाह- 'संसयेत्यादि' । इदमुक्तं भवति- प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन्, तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुञ्चारिते किमनेन दीपनः प्रकाशवानर्थोऽभिहितः, किं वाsप्रकाशकोऽप्यन्धोपलादिः । इति संशयः । अन्धोपलादिरेव तेनाभिहितो न दीप इति विपर्ययः । तथा, दीप इत्युक्तेऽप्यन्धोपलादी, अन्धोपलादौ चोक्ते दीपे प्रत्ययात् पदार्थानामेकत्वं सांकर्ये वा स्यात् । तस्माच्छब्दवशादेवाभिधेयम्, अधिधेयवशाच्च शब्द इति ।। २२५३ ।। समभिरूढनयं शिक्षयन्नाह - सैद परिणामओ जइ घड- कुडसद्दत्थभेयपडिवत्ती । तो निच्चेट्ठो वि कहं घडसद्दत्थो घडोऽभिमओ ? ॥२२५४ ॥ १ व्यञ्जनमर्थनार्थं च व्यञ्जनेनोभयं विशेषयति । यथा घटशब्दं चेष्टावता तथा तामपि तेनैव ॥ २२५२ ॥ २ शब्दवशादभिधेयं तत्प्रत्ययत्वात् प्रदीप कुम्भवत् । संशय-विवर्ययै करव-संकरादिप्रसङ्गात् ।। २२५३ ॥ ३. शब्दपरिणामतो यदि घट- कुटशब्दार्थभेदप्रतिपत्तिः । ततो निश्रेष्टोऽपि कथं घटशब्दार्थो घटोऽभिमतः १ ॥ २२५४ ॥ For Personal and Private Use Only ।।९१८ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202