________________
विशेषा०
॥९९८॥
Jain Education Interna
वंजणमत्थे णत्थं च वंजणेणोभयं विसेसेइ । जह घडसहं चेट्ठावया तहा तं पितेव || २२५२ ॥
व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावतेद्वाच्येनार्थेन विशिनष्टि- स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रति- बृहद्वृत्तिः । पादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथा, अर्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयतिचेष्टापि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका, इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थ इति, एवमुभयं विशेषयति । शब्दमर्थेन, अर्थस्तु शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह - 'जह घडसद्दमित्यादि । इदमत्र हृदयम् - यदा योषिन्मस्तकारूढश्रेष्ठावानर्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः; अन्यदा तु वस्त्वन्तरस्येव तचेष्टाऽभावादघटत्वं घटध्वनेश्वावाचकत्वमिति । एवमुभयविशेषक एवंभूतनय इति ।। २२५२ ॥
एतदेव प्रमाणतः समर्थयन्नाह -
सैदवसादभिधेयं तप्पच्चयओ पईव - कुम्भो व्व । संसय-विवज्जए-गत्त-संकराइप्पसंगाओ || २२५३ ॥
यथाsभिधायकः शब्दस्तथैवाभिधेयं प्रतिपत्तव्यमिति प्रतिज्ञा । तत्प्रत्ययत्वात्- तथाभूत एवार्थे ततः प्रत्ययसंभूतेरिति हेतु:, प्रदीपवत् कुम्भवद् वेति दृष्टान्तः । विपर्यये बाधकमाह- 'संसयेत्यादि' । इदमुक्तं भवति- प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन्, तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुञ्चारिते किमनेन दीपनः प्रकाशवानर्थोऽभिहितः, किं वाsप्रकाशकोऽप्यन्धोपलादिः । इति संशयः । अन्धोपलादिरेव तेनाभिहितो न दीप इति विपर्ययः । तथा, दीप इत्युक्तेऽप्यन्धोपलादी, अन्धोपलादौ चोक्ते दीपे प्रत्ययात् पदार्थानामेकत्वं सांकर्ये वा स्यात् । तस्माच्छब्दवशादेवाभिधेयम्, अधिधेयवशाच्च शब्द इति ।। २२५३ ।।
समभिरूढनयं शिक्षयन्नाह -
सैद परिणामओ जइ घड- कुडसद्दत्थभेयपडिवत्ती । तो निच्चेट्ठो वि कहं घडसद्दत्थो घडोऽभिमओ ? ॥२२५४ ॥
१ व्यञ्जनमर्थनार्थं च व्यञ्जनेनोभयं विशेषयति । यथा घटशब्दं चेष्टावता तथा तामपि तेनैव ॥ २२५२ ॥
२ शब्दवशादभिधेयं तत्प्रत्ययत्वात् प्रदीप कुम्भवत् । संशय-विवर्ययै करव-संकरादिप्रसङ्गात् ।। २२५३ ॥
३. शब्दपरिणामतो यदि घट- कुटशब्दार्थभेदप्रतिपत्तिः । ततो निश्रेष्टोऽपि कथं घटशब्दार्थो घटोऽभिमतः १ ॥ २२५४ ॥
For Personal and Private Use Only
।।९१८ ।।
www.jainelibrary.org