________________
विशेषा
बृद्दतिः।
॥९१९॥
यदि शब्दपरिणामतः शब्दभेदाद् घट-कुट-कुम्भादिपर्यायशब्दानामर्थभेदप्रतिपत्तिस्तव, ततस्तर्हि निश्रेष्टोऽपि घटशब्दाभिधेयोर्थः कथं घटोऽभिमतः, घटनाद् घट इति शब्दार्थाभावात् ? इति ।। २२५४ ॥
किश्च, जैइ वत्थुसंकमो वा निट्ठो चिट्ठावओ य संकन्ती । तो नहि निच्चिट्ठतया जुत्ता हाणी व समयस्स।।२२५५॥
वा-अथवा, युक्त्यन्तरमुच्यते- हन्त ! यदि 'वैथुओ संकमणं होइ अवत्थु इत्यादिवचनात् तव वस्तुसंक्रमो नष्टो नाभिमतः, तर्हि चेष्टावतोऽपि भावघटस्य निश्चेष्टतयेति । कोऽर्थः । चेष्टाविकले द्रव्यघटे घटशब्दप्रवृत्तितः संक्रमणं संक्रान्तिनहि नैव युक्ता । अथ चेष्टावतोऽपि निश्चष्टेऽर्थे संक्रान्तिरिष्यते, तर्हि समयहानिर्भवतः, 'वत्थुओ संकमणं' इत्यादिखप्रतिज्ञाक्षतिरित्यर्थः ॥ २२५५ ॥ अपरमप्यस्य मतभेदं दर्शयन्नाह--
ऐवं जीवं जीवो संसारी पाणधारणाणुभवो । सिद्धो पुणरजीवो जीवपरिणामरहिउ ति ॥ २२५६ ॥
जीवति
जम
S
"पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छास-निःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टास्तेषां वियोगीकरणं च हिंसा ॥१॥
इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाजीवन्नेव दशविधमाणधारणं कुर्वन्नस्य नयस्य मतेन जीव उच्यते । स च सामर्थ्याद् दशविधमाणधारणमनुभवतीति दशविधप्राणानुभवो नारकादिः संसार्येव भवति । सिद्धस्त्वेतनयमतेन जीवः, आयुष्मान, प्राणीत्यादिशब्दैन व्यपदिश्यते, जीवनादिपरिणामरहित इति कृत्वा शब्दार्थाभावात् । किं तर्हि ? । सत्तायोगात् सत्त्वः, अतति तांस्तान् ज्ञान-दर्शन-सुखादिपर्यायान् गच्छतीत्यात्मा, इत्यादिभिरेव शब्दनिर्दिश्यत इति ।। २२५६ ।। यदपि देश-देशिनोरेकत्वं समर्थयता 'देशी चासौ देशश्च' इत्यायुक्तं समभिरूढेन, तदप्ययुक्तमिति दर्शयन्नाहजइ देसि च्चिय देसो पत्ता पज्जायवयणपडिवत्ती । पुणरुत्तमाणत्थं वत्थुसंकमो वा ण चेटुंते ॥ २२५७||
यदि वस्तुसंक्रमो बा नेष्टश्चेष्टावतश्च संक्रान्तिः । ततो नहि निचेष्टतया युक्ता हानिर्वा समयस्य ॥ २२५५ ॥ २ गाथा २१८५। ३ एवं जीवजीवः संसारी प्राणधारणानुभवः । सिद्धः पुनरजीवो जीवपरिणामरहित इति ॥ २२५६ ॥ । यदि देश्येव देशः प्राप्ता पर्यायवचनप्रतिपत्तिः । पुनरुक्तमानध्य वस्तुसंक्रमो वा न चेष्टं ते ॥ २२५७ ।।
ANDARASHTRAPARIAGRA
॥९१९॥
தே
For Personal and
Use Only
G
ajanabrary.org