________________
G
विशेषा ॥९२०
पदि देश्येव देशः, देशो वा देशी, तद् नन्वनयोः पर्यायवचनतैव प्राप्ता, यथा वृक्षः पादप इत्यादीनां पर्यायवचनता तथा देशिदेशशब्दयोरपीत्यर्थः । ततः को दोषः ? इति चेत् । उच्यते - ततो यथा वृक्षः पादप इत्येकार्थशब्दप्रयोगे पौनरुक्त्यं तथा देशिदेशशब्दप्रयोगेऽपि स्यात् । तथैकेनापि द्वितीयशब्दार्थस्य प्रतिपादितत्वाद् द्वितीयशब्दप्रयोगस्यानर्थक्यं च स्यात् । तथा, देशस्य देशिनि, देशिनश्च देशे तिरोधानाद् वस्तुसंक्रमोऽपि भवेत् । न चेदं तवेष्टम् । तस्माद् न देश-देशिनोरेकत्वमिति । भेदपक्षस्तु तयोस्त्वयापि निराकृतः ॥ २२५७ ॥
अथ निराकृतमप्यभेदपक्षोक्तदूषणभयात् पुनस्तमङ्गीकरिष्यसीत्याह--
अह भिण्णो तस्स तओ न होइ न य वत्थुसंकमभयाओ। देसी चेव य देसो न वा पएसी पएसो त्ति ॥२२५८॥
अथ भिन्नो देशिनो देशः, तर्हि प्राक्त्वदुक्तयुक्तेरेव तस्य देशिनस्तकोऽसौ देशो न भवतीति स्मर्यतामिदम् । न च वस्तुसंक्रमादिदोषभयाद् देश्येव देशोऽभ्युपगन्तव्य इत्यनन्तरमेवोक्तम् । एवं प्रदेशी प्रदेश इत्यपि नैष्टव्यम् , समानदोषत्वात् । तस्माद् देशिमात्रं प्रदेशिमात्रं चाखण्डवस्त्वभ्युपगन्तव्यम् । न तु देश-प्रदेशकल्पना कार्या, तयोर्भेदेऽभेदे च यथोक्तदोषप्रसङ्गात् । अत एतन्मतेन कर्मधारयोपि पदानां न भवति । सर्वस्यापि वस्तुनः प्रत्येकमखण्डरूपत्वात् ।। २२५८ ॥
. अथ देशप्रतिपादनार्थ नो देशीति प्रयोगः क्रियते, एकदेशवचनश्च नोशब्दो देशिन एकदेशभूत एव देशः, न पुनस्तव्यतिरिक्त इत्यर्थः । एतदप्ययुक्तम् । कुतः । इत्याह
नोसदो वि समत्तं देसं व भणिज्ज जइ समत्तं तो । तस्स पओगोऽणत्थो अह देसो तो न सो वत्थु ॥२२५९॥
नो देशी' इति प्रयोगे योऽयं नोशब्दः स किं समस्तं देशिलक्षणं वस्तु वदेत् , अथवा तं देशमेव ब्रूयात् । यद्याद्यः पक्षः, तर्हि नौशब्दस्य प्रयोगोऽनर्थकः, केवलाद् देशिशब्दादेव समस्तवस्तुप्रतीतेः । अथ देशो नोशब्देनोच्यते ततो नासौ वस्तु, देशिनो भिन्नोभिन्नो वा नायमुपपद्यत इत्युक्तत्वादिति ॥ २२५९ ।।
नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति । द्वयोश्चैकमधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वात् । ततस्तदभावात् कर्मधारयसमासो न युक्त इति दर्शयन्नाह
अथ भित्रस्तस्य सको न भवति न च वस्तुसंक्रमभयात् । देश्येव च देशो न वा प्रदेशी प्रदेश इति ॥ २२५८ ॥ २ नोशब्दोऽपि समस्तं देशं वा भणेद् यदि समस्तं ततः। तस्य प्रयोगोऽनयर्थोऽध देशस्ततो न स वस्तु ॥ २२५९ ॥
॥९२०॥
For Personal and
Use Only