________________
विशेषा०
॥९२१॥
Join Educatora Internat
नीलुप्पलाइ सदा हिगरण मेगं च जं मयं तत्थ । नणु पुणरुत्ता - ऽणत्थय-समयविघाया पुहतं वा ॥ २२६० ॥ नीलोत्पलादिशब्दानां यदेकमधिकरणमतिक्रान्तनयस्य संमतं, तत्र ननु पौनरुक्त्या ssनर्थक्य समयविघातलक्षणा दोषा उक्ता एवेति न कर्मधारयः । अथ पौनरुक्त्यादिदोषा नेष्यन्ते, तर्हि नीलोत्पलादिशब्दाभिधेयस्यार्थस्य पृथक्त्वं भेदः प्राप्नोति इत्यतोऽपि तुल्याधिकरणताऽभावाद् न कर्मधारयः ।। २२६० ।।
तस्मात् किं स्थितम् ? इत्याह
तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्युं सेसमवत्युं विलक्खणं खरविसाणं व ॥ २२६१ ॥ तस्माद् वस्तुसांकर्यादिदोषप्रसङ्गतः सर्व धर्मास्तिकायादिकं संपूर्ण देशि देशकल्पनारहितमखण्डं वस्तु । एतस्मात्तु विलक्षणं देशि - देशकल्पनान्वितमवस्तु, युक्तिविकलत्वात्, खरविषाणवदिति । तदेवमुक्ता विस्तरतः समस्ता अपि नयाः ।। २२६१ ।।
अथ विस्तरावधारणविकलशक्तिविनेयानुग्रहार्थं संक्षिप्य तदभिप्रायमाह-
अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तता । सद्दप्पहाणमत्थोवसज्जणं सेसया बिंति ॥ २२६२ ॥
ऋजुसूत्रान्ताश्चत्वारो नया वस्तु ब्रुवते प्रतिपादयन्ति । कथंभूतम् ? इत्याह- अर्थप्रवरं शब्दोपसर्जनं च, अर्थः प्रवरः प्रधानभूतो मुख्य यत्र तदर्थप्रवरम्, शब्द उपसर्जनमप्रधानभूतो गौणो यत्र तत् शब्दोपसर्जनम् । शेषास्तु शब्दादयस्त्रयो नया व्यत्ययमिच्छन्ति । अत एवायाथत्वारोऽर्थनयाः, अन्त्यास्तु त्रयः शब्दनयाः प्रोच्यन्त इति ।। २२६२ ।।
११६
अथाभिहितमुपसंहरन् वक्ष्यमाणं च संबन्धयन्नाह -
tय नेगमाइसंखेव लक्खणं मूलजाइभेएणं । एवं चिय वित्थरओ विष्णेयं तप्पभेएणं ॥ २२६३ ॥ इत्येवं नैगमादिनयानां मूलजातिभेदतः संक्षेपलक्षणमुपलक्षणमुक्तम् । विस्तरतोऽप्येवमेवोक्तानुसारेणैषां लक्षणं विज्ञेयम् ।
१ नीलोत्पलादिशब्दाधिकरणमेकं च यद् मतं तत्र । ननु पुनरुक्ता ऽनर्थक-समय विधाताः पृथक्त्वं वा ।। २२६०
२ ततो वस्तुसंकरादिप्रसङ्गतः सर्वमेव परिपूर्णम् । वस्तु शेषमवस्तु विलक्षणं खरविषाणमिव ॥ २२६१ ॥
३ अर्थप्रवरं शब्दोपसर्जनं वस्तु ऋजुसूत्रान्ताः । शब्दप्रधानमर्थोपसर्जनं शेषका बुवते ॥ २२६२ ॥
४ इति नैगमादिसंक्षेपलक्षणं मूलजातिभेदेन । एवमेव विस्तरतो विज्ञेयं तत्प्रभेदेन ॥ २२६३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥९२१॥
www.janelibrary.org