SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥९२२॥ केन ? । 'तप्पभेएणं ति' तेषां मूलजातिभेदानां येऽन्ये प्रकृष्टाः मूक्ष्मतरा भेदास्तैरित्यर्थ इति । एवं व्याख्याताः पञ्च नियुक्तिगाथाः, अष्टसप्ततिश्च भाष्यगाथाः, इत्युभयं त्र्यशीतिगाथार्थः ॥ २२६३ ॥ के पुनस्ते प्रभेदाः ? इत्याह-- इंकिको य सयविहो सत्त नयसया हवंति एमेव । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥२२६४॥ एतेषां मूलजातिभेदतः सप्तानां नैगमादिनयानामेकैकः प्रभेदतः शतविधः शतभेदः । एवं च सर्वैरपि प्रभेदैः सप्त नयशतानि भवन्ति । अन्योऽपि चादेशः प्रकारस्तेन पञ्च नयशतानि भवन्ति । शब्दादिभिस्त्रिभिरपि नयैर्यदैक एव शब्दनयो विवक्ष्यते तदा पञ्चैव मूलनया भवन्ति, एकैकस्य च शतविधत्वात् पञ्चशतविधत्वं नयानाम् । 'अन्नो वि य त्ति' अपिशब्दात् षट् , चत्वारि, द्वे वा शते नयानाम् । तत्र यदा सामान्यग्राहिणो नैगमस्य संग्रहे, विशेषग्राहिणस्तु व्यवहारेऽन्तर्भावो विवक्ष्यते तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात् षट् शतानि नयानाम् । यदा तु संग्रह-व्यवहार-ऋजुसूत्रलक्षणास्त्रयोऽर्थनया विवक्ष्यन्ते, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो मूलनया भवन्ति, प्रत्येकं च शतभेदत्वाचत्वारि नयशतानि । यदा तु नैगमादयश्चत्वारोऽप्येको द्रव्यास्तिका, शब्दनयास्तु त्रयोऽप्येक एव पर्यायास्तिक इत्येवं द्वावेव नयौ विवक्ष्येते तदाऽनयोः प्रत्येकं शतभेदत्वाद् द्वे नयशते भवतः ॥ इति नियुक्तिगाथार्थः ॥ २२६४ ॥ अथवा, किमनेन स्तोकभेददर्शनेन ?, उत्कृष्टतोऽसंख्याता अपि नया भवन्ति । तेऽपि चापिशब्दाद् द्रष्टव्या इति दर्शयन्नाहजीवन्तो वयणपहा तावन्तो वा नया विसदाओ। ते चेव य परसमया सम्मत्तं समुदिया सव्वे ॥२२६५ ॥ 'वा' अथवा, यावन्तो वचनपथा वचनमार्गा वचनप्रकारास्तेऽपीहापिशब्दात् संगृहीताः । य एव च नयास्त एन च सावधारणाः सर्वेऽपि परसमयास्तीर्थिकसिद्धान्ताः, समुदितास्तु निरवधारणाः स्याच्छब्दलाञ्छिताः सर्वेऽपि नयाः सम्यक्त्वं जिनशासनभावं प्रतिपद्यन्त इत्यर्थः । आह च स्तुतिकारः"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्विबोदधिः ॥ १॥" १ एकैकश्च शतविधः सप्त नयशतानि भवन्त्येवमेव । अन्योऽपि चादेशः पञ्चैव शतानि नयानां तु ॥ २२६४ ॥ २ यावन्तो वचनपथास्तावन्तो वा नया अपिशब्दात् । त एव च परसमयाः सम्यक्त्वं समुदिताः सर्वे । २२६५॥ ॥९२२॥ For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy