SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥९२३।। CiCELECICICELATKICLES इति ॥ २२६५॥ एतदक्षममाणः परप्राहने समेन्ति न य समेया सम्मत्तं नेव वत्थुणो गमगा। वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥२२६६॥ न समयन्ति न समुदायभावमापद्यन्ते नयाः, नापि समेतास्ते सम्यक्त्वं भवति, प्रत्येकावस्थायां मिथ्यादृष्टित्वात , तत्समुदाये महामिथ्यात्वप्रसङ्गात्, प्रचुरविषलवसमुदाये विषप्राचुर्यवत् । नापि ते समेता वस्तुनो गमकाः, प्रत्येकावस्थायां तदगमकत्वात् । समुदिताश्च ते विवदमानाः प्रत्युत वस्तुविधातायैव भवन्ति, न पुनस्तद्गमकाः। कुतः पुनस्ते न समयन्ति, न च समुदिताः सम्यक्त्वं, नापि वस्तुगमकाः ? इत्याह-विरोधित्वात् , वैरिवदिति ॥ २२६६ ॥ अत्रोत्तरमाह सैव्वे समयंति सम्मं चेगवसाओ नया विरुद्धा वि । भिच्च-ववहारिणा इव राआदासाणवसवत्ता ॥२२६७॥ परस्परविरुद्धा अपि नयाः सर्वेऽपि समयन्ति समुदिता जायन्ते, सर्वे च सम्यक्त्वं भवन्ति । कुतः? इत्याह- एकस्य जिनसाधोर्वशवर्तित्वात् , राजवशवर्तिनानाभिप्रायमृत्यवर्गवत् । अथवा, व्यवहारिण इवोदासीनवशवर्तिनः । इदमुक्तं भवति- यथा नयदर्शिनाऽऽज्ञासारेणैकेन राज्ञा विरोधादिभावमापन्ना बहवोऽपि भृत्याः सम्यगुपायतो विरोधादिकारणान्यपनीयैकत्र मील्यन्ते, सत्प्रवृत्तिं च कार्यन्ते; यथा वा धन-धान्य-भूम्याद्यर्थे परस्परं विवदमाना बहवोऽप्यर्थि-प्रत्यर्थिलक्षणा व्यवहारिणः सम्यग् न्यायदर्शिना केनाप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, सन्मार्ग च ग्राह्यन्ते ; तथेहापि परस्परविरुद्धान् बहूनपि नयान् सम्यग्ज्ञानी जैनसाधुस्तेषां सावधारणतालक्षणं विरोधकारणमपनीयकत्र मीलयति, सावधारणत्वे च मिथ्यात्वकराणेऽपनीते तान् सम्यग्रूपतां ग्राहयति । प्रचुरविषलवा अपि हि मौढमन्त्रवादिना निर्विषीकृत्य कुष्ठादिरोगिणो दत्ता अमृतरूपतां प्रतिपद्यन्त एवेति ॥ २२६७॥ प्रत्येकावस्थायामेकैकांशग्राहित्वात् समुदिता अपि कथं ते वस्तुगमकाः ? इत्यत्राह १ न समयन्ति न च समेताः सम्यक्त्वं नैव वस्तुनो गमकाः । वस्तुविधाताय नया विरोधतो वैरिण इव ॥ २२६६ ॥ २ सर्वे समयन्ति सम्यक्त्वं चैकवशाद् नया विरुद्धा अपि । भूत्य-व्यवहारिण इव राजो-दासीनवशवर्तिनः ॥ २२६७ ॥ ॥९२३॥ Jan Education internet For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy