________________
विशेषा
बहत्तिः ।
॥९२४॥
देसगमगत्तणाओ गमग च्चिय वत्थुणो सुयाइ व्व । सव्वे समत्तगमगा केवलमिव सम्मभावम्मि ॥२२६८॥
इह नया वस्तुनस्तावत् सामान्येन गमका अवबोधकाः प्रापका इति पक्षः, तद्देशगमकत्वात् । ननु वस्तुनो देशमात्रमेव प्रत्येकममी गृहन्ति, तत्कथं वस्तुगमका उच्यन्ते ? इत्याह- श्रुतादिवत् । इदमुक्तं भवति-घटादीनां रूपमात्रमेव चक्षुर्ग्रहाति, न रसादिधर्मान् । पर्वतादीनां चार्वाग्देशमात्रमेव गृह्णाति न परभागमिति, एवं देशग्राहकमपि सद् वस्तु गमयत्येव, एवं नया अपि। किञ्च, एत एव सर्वे नया मिथ्यात्वापगमेन सम्यक्त्वसद्भावे क्रमेण विशुध्यमानाः सर्वावरणपतिबन्धाभावात् समस्तवस्तुगमका भवन्ति, केवलज्ञानमिवेति ।। २२६८॥
आह- ननु यदि ते प्रत्येकमपि वस्तुगमकाः, तर्हि मिथ्यादृष्टयः कथम् ? इत्याहजमणेगधम्मणो वत्थुणो तदंसे च सव्वपडिवत्ती । अन्ध व्व गयावयवे तो मिच्छद्दिछिणो वीसु ॥२२६९॥
यद् यस्मादनेकधर्मस्यानेकधर्मात्मकस्य वस्तुनस्तदंशेऽपि गृहीतेऽनित्यत्वाद्येकधर्ममात्रेऽपि परिच्छिन्ने बौद्धार्नयवादिनः 'समस्तं वस्तु मया गृहीतम्' इत्येवंभूता प्रतिपत्तिर्भवति । ततस्तस्माद् विष्वक् पृथगेककशो मिथ्यादृष्टयः, विपर्यस्तबुद्धित्वात् , एकस्मिन् | पुच्छ-पादाद्यवयवे समस्तगजप्रतिपत्तारोऽन्धा इवेति ॥ २२६९ ॥
समुदिता अपि तर्हि कथं ते सम्यग्दृष्टयः ? इत्याह
जं पुण समत्तपज्जायवत्थुगमग त्ति समुदिया तेणं । सम्मत्तं चक्खुमओ सव्वगयावयवगहणे व ॥२२७०॥
यस्मात् तु समुदिता नयाः समस्तपर्याया यस्य वस्तुनस्तत् सपस्तपर्यायं वस्तु तस्य गमकाः प्रापका भवन्ति, तेन ते सम्यक्त्वं सम्यग्वादिनो व्यपदिश्यन्ते । यथा समस्तगजावयवग्रहणे सर्वगजावयवसमुदायात्मकगजवादिनश्चक्षुष्मन्तः । निरवधारणोऽपरनयसापेक्षः स्यात्पदलाञ्छित एकोऽपि नयः सम्यग्वादी, ये तु सावधारणा अन्योन्यमनपेक्षाः स्यात्पदालाञ्छितास्ते बहवोऽपि समुदिता मिथ्यादृष्टय एवेतीह तात्पर्यम् । अत एव ये सावधारणास्ते बहवोऽपि समुदितव्यपदेशं न लभन्ते, तत्त्वतस्तेषामसमुदितत्वात् । निरवधारणास्तु नयाः पृथगपि स्थिताः परस्परं सापेक्षत्वेन समुदिता भण्यन्त इति ।। २२७०
१ देशगमकत्वाद् गमका एवं वस्तुनः श्रुतादिरिख । सर्वे समस्तगमकाः केवलमिव सम्यग्भावे ॥ २२६८ ॥ २ यदनेकधर्मणो वस्तुनस्तदंशे च सर्वप्रतिपत्तिः । अन्धा इव गजावयवे ततो मिथ्यारष्टयो विष्वक् ॥ २२६९ ॥ ३ यत् पुनः समस्तपर्यायवस्तुगमका इति समुदितास्तेन । सम्यक्त्वं चक्षुष्मन्तः सर्वगजावयवग्रहण इव ॥ २२७०।
॥९२४॥
Sta
Jan Education Inten
For Personal and
Use Only