________________
विशेषा.
FON
॥९२५॥
अष्टान्तान्तरेणापि समुदितानां समस्तवस्तुगमकत्वं समर्थयन्नाह
ने समत्तवत्थुगमगा वीसुं रयणावलीए मणउ व्व । सहिया समत्तगमगा मणओ रयणावलीए व्व॥२२७१॥ बृहद्वत्तिः।
न समस्तवस्तुगमकाः पृथग्भूता नयाः, परस्परनिरपेक्षत्वात् , पृथस्थितरन्नावलीव्यपदेशाहप्रणय. इव । त एव समुदिताः | समस्तवस्तुगमकाः, यथास्थानविनियोगेन परस्परसापेक्षत्वात् , एकमूत्रक्रमप्रोतरत्नावलीमणय इवेति ।। २२७१ ॥
अथ परस्परं विवदमानान् नयान् समीक्ष्य ये मुह्यन्ति, 'न किञ्चिदिह परस्परं मिलति' इत्यादिभाषणतः समयाशातनां च कुर्वन्ति, तदुपदेशगर्भमुपसंहरन्नाह
ऐवं सविसयसच्चे परविसयपरंमुहतए नाउं । नेएसु न संमुज्झइ न य समयासायणं कुणइ ॥ २२७२ ॥
एवमुक्तप्रकारेण यो यस्य द्रव्यास्तिकायादिनयस्यात्मीयो नित्यत्वादिको विषयस्तन्मात्रप्रतिपादने सत्योऽवितथो नयः, परस्य तु पर्यायास्तिकादिनयस्स योऽनित्यत्वादिको विषयस्तत्र पराङमुखः, न तं निराकरोति, निरवधारणत्वेन सम्यगनयत्वात् , नापि तं स्थापयति, नयत्वेनैकांशग्राहित्वादित्यर्थः । एवंभूतान् सर्वानपि नयान् ज्ञात्वाऽन्योन्यरूपतया तेषां स्वविषयप्रतिपादनेऽपि नयविधिज्ञः साधुर्जेयेषु वस्तुषु न संमुह्यति, न दोलायमानमान सो भवति । नापि निन्दादिभिः सययाशातनां विधाय मिथ्यात्वमुपगच्छति, किन्तु 'कथञ्चिदेतदप्यस्ति कथञ्चिदिदमपि च घटते' इत्यादिरूपतया नयान् विषयविभागेन व्यवस्थाप्य वस्त्वर्थं गमयतीति ॥२२७२।।
नन्वनेन संमोहहेतुना नयविचारेण मूलत एव किं प्रयोजनम् ? इत्याह-- अत्थं जो न समिक्खइ निक्खेव-नय-प्पमाणओ विहिणा । तस्साजुत्तं जुत्तं जुत्तमजुत्तं ध पडिहाइ॥२२७३॥ परसमएगनयमयं तप्पडिवक्खनयओ निवत्तेज्जा । समए व परिग्गहियं परेण जं दोसबुद्धीए ॥२२७४॥ यो नाम-स्थापनादिद्वारेण, तथा नैगमादिनयः, प्रत्यक्षादिभिश्च प्रमाणैरर्थ सूक्ष्मेक्षिकया विचार्य न समीक्षते न परिभावयति,
न समस्सवस्तुगमका विष्वग् रखावल्या मणय इव । सहिताः समस्तगमका मणयो रत्नावल्या इव ॥ २२७१ ॥ २ एवं स्वविषयसत्यान् परविषयपराङ्मुखतया ज्ञात्वा । ज्ञेयेषु न संमुह्यति न च समयाशातनां करोति ॥ २२७२ ॥ ३ अर्थ यो न समीक्षते निक्षेप-नय-प्रमाणतो विधिना । तस्यायुक्तं युक्तं युक्तमयुक्तं वा प्रतिभाति ॥ २२ ॥
॥९२५|| परसमयैकनयमतं तत्प्रतिपक्षनयतो निवर्तयेत् । समये वा परिगृहीतं परेण यद् दोषयुदधा ॥ २५७४ ।।