SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥९१७॥ अपरमपि समभिरूढनयाभिप्रायभेदं दर्शयन्नाहघेडकारविवक्खाए कत्तुरणत्थंतरं जओ किरिया। न तदत्थंतरभूए समवाओ तो मओ तीसे ॥ २२४९ ॥ कुंभम्मि वत्थुपज्जायसंकराइप्पसंगदोसाओ । जो जेण जं व कुरुए तेणाभिन्नं तयं सव्वं ॥ २२५० ॥ 'घटं करोति' इति घटकार इत्यस्यां विवक्षायां प्ररूपणायां यस्मात् तस्य घटकर्तुरनर्थान्तरमव्यतिरिक्ता घटकरणक्रिया, कर्तर्येव घटकारे तस्याः समवायात् । 'तो त्ति तस्माद् न तदर्थान्तरभूत कर्तुर्व्यतिरिक्त कुम्भे घटे यस्याः समवायः संश्लेषो मतः । कुतः। वस्तुपर्यायसंकरादिदोषप्रसङ्गात्- वस्तूनां ये पर्याया धर्मास्तेषां परस्परं संकरः संकीर्णत्वमेकत्वं वा स्यात् , कर्तृगतक्रियायाः कुम्भेऽपि समवायाभ्युपगमात् । ततश्च यः कुम्भकारादिर्येन क्रियाविशेषेण यत् कुम्भादिकं कुरुते तेन क्रियाविशेषेण तक्रियारूपतयेत्यर्थः, सर्व तत् कर्तृ-कर्माद्यभिन्नं स्यात् । तस्मात् कर्तुगतक्रियाया न कर्मणि संक्रमः, किन्तु कुर्वन् कारकः, कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढ इति । उक्तः समभिरूढनयः ।। २२४९ ॥ २२५० ।। अथैवंभूतमाह ऐवं जह सहत्थो संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ सदत्थपरो विसेसेणं ॥ २२५१ ॥ एवं यथा 'घट चेष्टायाम्' इत्यादिरूपेण शब्दार्थो व्यवस्थितः, 'तह त्ति तथैव यो वर्तते घटादिकोऽर्थः, स एव सन् भूतो विद्यमानः। 'तदन्नहाऽभूउत्ति' यस्तु तदन्यथा शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति किन्त्वभूतोऽविद्यमानः । येनैवं मन्यते, तेन कारणेन शब्द-समभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थतत्परः । अयं हि योषिन्मस्तकारुढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते, न तु गृहकोणादिव्यवस्थितम् , अचेष्टनात् , इत्येवं विशेषतः शब्दार्थतत्परोऽयमिति ॥२२५१।। 'बैंजण-अत्थ-तदुभए एवंभूओ विसेसेई' इति नियुक्तिगाथादलं व्याचिख्यासुराह-- घटकारविवक्षायां कर्तुरनान्तरं यतः क्रिया । न तदर्थान्तरभूते समवायस्ततो मतस्तस्याः ॥ २२४९ ॥ कुम्भे वस्तुपर्यायसंकरादिप्रसङ्गदोषात् । यो येन यद् वा कुरुते सेनाभिन्न तत् सर्वम् ॥ २२५. ।। २ एवं यथा शब्दार्थः सन् भूतस्तदन्यथाऽभूतः । तेनैवंभूतनयः शब्दार्थपरो विशेषेण ॥ २२५१ ॥ ३ गाथा २१८५ । ॥९१७|| For Personal and Price Use Only Haliww.jainabrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy