SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥९९६ ॥ Jain Education Internat मात्रेणापि ते काष्ठमयप्रस्थकादयः प्रमाणमिष्टाः, तर्हि प्रमेयमपि प्रमाणं प्राप्नोति, प्रमाणज्ञानकारणत्वात् । एवं च सति दधिभक्षणादीनामपि परम्परया तत्कारणत्वेन प्रमाणत्वात् किं नामाप्रमाणं स्यात् ? । यदि च सत्यपि तत्कारणत्वेऽन्यत् सर्वं दधिभक्षणादिकं न प्रमाणम्, तर्हि काष्ठमयप्रस्थकादयोऽपि न प्रमाणम्, अतः किं नाम प्रमाणं भवेत् १ - न किश्चित् । ततो विशीर्णा प्रमाणाऽप्रमाणव्यवस्था । तस्मात् मस्थकज्ञानमेव प्रस्थकप्रमाणं त्रयाणामपि शब्दनयानामिति ।। २२४५ ।। २२४६ ।। तथा पञ्चानां धर्मा-धर्माऽकाश जीव- पुद्गलास्तिकायानां देश-प्रदेशकल्पनायामस्य षष्ठीसमासादि नेष्टम् । किं तर्हि ? देशी चासौ देशवेत्यादिकर्मधारयमेव मन्यतेऽसौ नयः । कुतः ? इत्याह 1 'देसी चैव य देसो नो वत्युं वा न वत्थुणो भिन्नो । भिन्नो वन तस्स तओ तस्स व जइ तो न सो भिन्नो ॥ २२४७ ॥ एतो चैव समाणाहिगरणया जुज्जए पयाणं पि । नीलुप्पलाइयाणं न रायपुरिसाइसंसग्गो || २२४८ ॥ व्याख्या - धर्मास्तिकायादिको देश्येव हि देशो न पुनस्तस्माद् घटादिवारघट्टीऽत्यन्तभिन्नं स्वतन्त्रवस्तु देशः । अथ न स्वतन्त्रवस्तु देशः, किन्तु तत्संबन्धित्वादस्वतन्त्रोऽपि देशितो भिन्नो देश इति चेत् । तदप्ययुक्तम् । कुतः १ इत्याह- न वा देशिलक्षणाद् वस्तुनो भिन्नोऽसौ देशः । अथ भिन्नस्तस्मादिष्यते सः, तर्ह्यन्यस्यान्येन विन्ध्य- हिमवदादीनामिव सर्वथा संबन्धायोगाद् न तस्य | देशिनस्तकोऽसौ देशः । यदि पुनस्तस्य देशिनः संबन्धी देशोऽभ्युपगम्यते, तर्हि घटादेः स्वस्वरूपवद् न स देशस्तस्माद् देशिनो भिन्नः किन्तु तदात्मक एवेति । अत एव विशेषणविशेष्यभूतानां सर्वेषां पदानां समानाधिकरणता - कर्मधारय एव समासेो युज्यत इत्यर्थः, यथा नीलोत्पलादीनाम् उपलक्षणं चेदं धव-खदिर- पलाशादीनां द्वन्द्वोऽपि स्यात्, न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमासः, यतो भिन्नानामन्योन्यं संसर्गः संबन्धो न घटते, तथाहि संबद्धवस्तुयात् संबन्धो भिन्नो वा स्यादभिन्नो वा । यदि भिन्नः तर्हि संबद्धवस्तुयाद् भिन्नं स्वतन्त्रं तृतीयमेव वस्तु तत् स्याद् न तु संबन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः १ न हि विन्ध्य- हिमवदादिभ्यो भिन्नो घटादिः संबन्धो भण्यते । नापि तद्वशात् तेषां षष्ठ्चादिविभक्तिः प्रवर्तते । अथ संबद्धवस्तुद्रयादभिन्नः संबन्धः, तर्हि नासौ षष्ठादिहेतुः संबद्धवस्तु यादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, इत्यादि बहुत्र वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गादिति ।। २२४७ || ॥ २२४८ ॥ १ देश्येव च देशो नो वस्तु वा न वस्तुनो भिन्नः। भिन्नो वा न तस्य सकस्तस्य वा यदि ततो न स भिन्नः ॥ २२४७ ॥ एतस्मादेव समानाधिकरणता युज्यते पदानामपि । नीलोत्पलादिकानां न राजपुरुषादिसंसर्गः ॥ २२४८ ॥ For Personal and Private Use Only बृहदत्तिः। ।।९१६।। www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy