________________
विशेषा. ॥९१५॥
PHRASESolatelete
माणं पमाणमिट्ठ नाणसहावो स जीवओऽणन्नो । कह पत्थयाइभावं वएज मुत्ताइरूवं सो ? ॥२२४३॥ न हि पत्थाइ पमाणं घडो व्व भुवि चेयणाइविरहाओ । केवलमिव तन्नाणं पमाणमिट्ठ परिच्छेओ ॥२२४॥ बृहद्वृत्तिः ।
इह यद् मानं तत् प्रमाणमेवेष्टम् , प्रमीयते परिच्छिद्यते वस्त्वनेनेति कृत्वा । प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, स च जीवादनन्यः, अतः कथं मूर्तादिस्वभावम् , आदिशब्दादचेतनस्वभावं प्रस्थकादिखभावं ब्रजेदसौ, येन नैगमादयः काष्ठमयं प्रस्थादिकं मानमिच्छन्ति ? । तर्हि शब्दनयानां किं प्रस्थकादि प्रमाणम् , किंवा न प्रमाणम् ? इत्याह-न हि नैव काष्ठघटितं प्रस्थादिक प्रमाणम् , चेतनादिरहितत्वात् , घट-पट लोष्टादिवत्, किन्तु तस्य प्रस्थकस्य ज्ञानं तज्ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाणं मानमिष्टम् , तेनैव तत्त्वतः ममीयमाणत्वात् । 'परिच्छेया' इति पादान्तरं वा, तेनैव परिच्छेदात् । केवलज्ञानवत् । तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम् ॥ २२४३ ॥ २२४४ ॥
अत्र परमतमाशङ्काय परिहरनाहपेत्थादओ वि तक्कारणं ति माणं मई न तं तेसु । जमसंतेसु वि बुद्धी कासइ संतेसु वि न बुद्धी ॥२२४५॥
तक्कारणं ति वा जइ पमाणसिद्धं तओ पमेयं पि । सव्वं पमाणमेवं किमप्पमाणं पमाणं वा ? ॥२२४६॥
प्रस्थादयोऽपि मानमिति प्रतिज्ञा, तत्कारणात्- प्रस्थकज्ञानकारणत्वात् , यथा 'नवलं पादरोगः' इत्येवभूता परस्य मतिः स्यात् । तदेतद् न, यतस्तेषु प्रस्थकादिष्वसत्स्वपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसंपन्नस्य, अतिशयज्ञानिनो वा प्रस्थकपरिच्छेदबुद्धिरुपजायते । कस्यापि पुनर्नालिकरद्वीपाद्यायातस्य सत्स्वपि तेषु प्रस्थकपरिच्छेदबुद्धिर्न संपद्यते, इत्यनैकान्तिका एव काष्ठमयप्रस्थकादयः प्रस्थकज्ञानजनने, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः । यदिवा, भवन्तु ते तत्का. रणम् , तथापि न तत्कारणत्वेन तेषां प्रस्थादिमानरूपता, अतिप्रसङ्गादिति दर्शयति- 'तकारणं ति वेत्यादि' यदि प्रस्थकज्ञानकारण
'मानं प्रमाणमिदं ज्ञानस्वभावः स जीवतोऽनन्यः । कथं प्रस्थकादिभावं प्रजेद् मूर्तादिरूप सः ॥ २२ ॥
न हि प्रस्थादि प्रमाणं घट इव भुवि चेतनादिविरहात् । केवलमिव तज्ज्ञानं प्रमाणमिष्टं परिच्छेदः ॥ २२४४ ॥ २ प्रस्थादयोऽपि तत्कारणमिति मानं मतिर्न तत् तेषु । यदसत्स्वपि बुद्धिः कस्यचित् सत्स्वपि न बुद्धिः ॥ २२४५ ॥
FO॥९१५॥ तत्कारणमिति वा यदि प्रमाणसिद्धं ततः प्रमेयमपि । सर्व प्रमाणमेवं किमप्रमाणं प्रमाण वा ॥२२४६॥
HOSRCISocee
For Posol
s en
H
ajansbrary.org