________________
बृहदतिः।
॥९१४॥
- घट-पट-स्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टान्तः । तत एतदभिप्रायेण घटादेः कुट-कुम्भ-कलशादिकं पर्यायवचनं नास्त्येव, एकविशेषा. सिनर्येऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति ॥ २२३९ ।।
अतिक्रान्तशब्दनयशिक्षणार्थमाहधणिभेयाओ भेओऽणुमओ जइ लिंग-वयणभिन्नाणं। घड-पडवच्चाणं पिवघड-कुडवच्चाण किमणिट्ठो ? ॥२२४०॥
हन्त ! यदि लिङ्ग-वचनभिन्नानां घट-पट-स्तम्भादिशब्दवाच्यानामिवार्थानां ध्वनिभेदाद् भेदस्तवानुमतः, तर्हि घट-कुट-कुम्भकलशादिशब्दवाच्यानामर्थानां किमिति भेदो नेष्टः, ध्वनिभेदस्यात्रापि समानत्वात् । तस्मादस्मत्पथवर्तित्वं भवतीपि बलादा. पतितमिति ।। २२४०॥
वसति-प्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद इति दर्शयन्नाह
आगासे वसइ त्ति य भणिए भणइ किह अन्नमन्नम्मि । मोत्तूणायसहावं वसेज वत्थु विहम्मम्मि ? ॥२२४१॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जीवम्मि । न विलक्खणत्तणाओ भिन्ने छायातवे चेव ॥ २२४२॥
'कासौ साध्वांदिवसति ?' इति पृष्टे 'लोक-ग्राम-वसत्यादौ वसति' इति नैगमादिनयवादिनो बदन्ति । ऋजुमूत्रनयवादी तु किन वदति- 'यत्रावगाढस्तत्राकाशखण्डे वसति' । ततश्च ऋजुमूत्रेणैवं भणिते भणति समभिरूढः- नन्वात्मस्वभावं मुक्त्वा कथमन्यद्
वस्त्वन्यास्मिन् विधर्मक आत्मविलक्षणे वस्तुनि वसेत् ? न कथचिदित्यर्थः । तर्हि क्व वसति ? इत्याह- सर्वमेव वस्त्वात्मस्वभावे वसति, सत्त्वात् , जीवे चेतनावत् । भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुन्यन्यद् न वसति, यया छायाऽऽतप इति । एष त्रयाणामपि शब्दनयानामभिप्राय इति ॥ २२४१ ॥ २२४२ ॥
अथ प्रस्थकविचारमधिकृत्याह
ध्वनिभेदाद् भेदोऽनुमतो यदि लिङ्ग-वचनभिनानाम् । घट-पटवाच्यानामिव घट-कुटवाच्यानां किमनिष्टः ॥ १२४०॥ २ आकाशे वसतीति च भणिते भणति कथमन्यदन्यस्मिन् । मुक्त्वात्मस्वभावं वसेद् वस्तु विधर्मणि ॥ २२४१ ॥
वस्तु वसति स्वभावे सत्वाच्चेतनेव जीवे । न विलक्षणत्वाद् भिने छायाऽऽतप हब ।। २२४२ ॥
॥९१४॥
Jan Educona
For Personal and Private Use Only
Www.jainesbrary.org