SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ SHARE बृहद्धत्तिः। विशेषा. ॥९१३॥ मिरोहति समध्यास्ते तत्तद्वाच्याविषयत्वेन प्रमाणीकरोति, ततस्तस्माद् नानार्थसमभिरोहणात् समभिरूदो न यो घटशब्दवाच्योऽर्थस्तं कुट-कुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थ इति ॥ २२३६ ॥ यदुक्तं नियुक्तिकृता- 'वत्थुओ संकमणं होइ अवत्थू नए समभिरूढे' इति, तद्व्याख्यानार्थमाह-- देव्वं पज्जाओ वा वत्थु वयणंतराभिधेयं जं । न तदन्नवत्थुभावं संकमए संकरो मा भू॥ २२३७ ॥ न हि सतरवच्चं वत्थु सदंतरत्थतामेइ । संसय-विवज्जए-गत्त-संकराइप्पसंगाओ ॥ २२३८ ॥ द्रव्यं कुटादि, पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं प्रस्तुतघटादिवचनाद् यत् कुटादि वचनान्तरं तदभिधेयं यद् वस्तु न तदन्यवस्तुभावं घटादिशब्दाभिधेयवस्तुभावं संक्रामति । कुतः ? इत्याह-वस्तुनो वस्त्वन्तरसंक्रमे मा भूत संकरादिदोष इति । एतदेव भावयति-न हि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थरूपतामेति । एवं हि घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिर्वा ? इति संशयः स्यात् । विपर्ययो वा भवेत् , घटादावपि पटादिनिश्चयात् । पटादौ वा घटाद्यध्यवसायादेकत्वं वा घट-पटाद्यर्थानां प्राप्नुयात् । मेचकमाणिवत् संकीर्णरूपता वा घट-पटाद्यर्थानां भवेदिति । इयमत्र भावना- घटः कुटः कुम्भ इत्यादिशब्दात् पट-स्तम्भादिशब्दादिव भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचराने समभिरूढनयो मन्यते; तथाहि- घटनाद् घट इति विशिष्टचेष्टावानों घट इति गम्यते, तथा 'कुट कौटिल्ये' कुटनात् कौटिल्ययोगात् कुटः, तथा 'उभ उंभ पूरणे' कूम्भनात् कुत्सितपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाधर्थाः । ततश्च यदा घटाद्यर्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रान्तिः कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति ।। २२३७ ॥ २२३८ ॥ ततो घट-कुटाद्यर्थाना भेदसाधनायैव प्रमाणयन्नाह-- घड-कुडसइत्थाणं जुत्तो भेओऽभिहाणभेआओ । घड-पडसदत्थाण व तओ न पज्जायवयणं ति ॥२२३९॥ घट-कुट-कुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं युक्त इति प्रतिज्ञा, अभिधानभेदाद् वाचकध्वनिभेदादिति हेतुः । ९१३॥ १ गाथा २१८६ । २ द्रव्यं पर्यायो वा वस्तु वचनान्तराभिधेयं यत् । न तदन्यवस्तुभावं संक्रामति संकरो मा भूत् ॥ २२३० ।' न हि शब्दान्तरवाच्यं वस्तु शब्दान्तरार्थतामेति । संशय-विपर्ययै-कत्व-संकरादिप्रसङ्गात् ॥ २२३८ ॥ ३ घट-कुटशब्दार्थानां युक्तो भेदोऽभिधानभेदात् । घट-पटशब्दार्थानामिव ततो न पर्यायवचनामिति ॥ २२३९ ॥ ११५ Jan Education interna For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy