SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥९९२॥ Jain Educationa intes याओ ओ त्थी-पुंलिङ्गाभिहाणवञ्चाणं । पड-कुंभाणं व जओ तेणाभिन्नत्थमिद्धं तं || २२३४ ॥ यतो यस्मात् कारणात् स्त्री-पुं- नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव न पुनरेकत्वम्, 'तटी' इत्यभिधानस्यान्योऽर्थो वाच्यम्, ,' तट ' इत्यभिधानस्य स्वन्यः, 'तटम्' इत्यभिधानस्य त्वपरः । कुतः ? | ध्वनिभेदात् । तथा, 'गुरुर्गुरवः' इत्याद्येकवचन बहुवचनवाच्यानामर्थानां ध्वनिभेदादेव भेदः । केषामिव १ इत्याह- पट-कुम्भादिध्वनिभेदात् पट कुम्भाद्यर्थानामित्र । तेन तस्मात् कारणात् तल्लिङ्गं वचनं वा भिन्नार्थमेवेष्टम् । यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इत्यर्थः । अन्यलिङ्गवृत्तेस्तु शब्दस्य नान्यलिङ्गमर्थं वाच्यमिच्छत्यसौ, नाप्यन्यवचनवृत्तेः शब्दस्यान्यवचनवाच्यं वस्त्वभिधेयमिच्छत्येष इति भावः ॥ २२३४ ॥ अथ यदसौ मन्यते तत् सर्वमुपसंहृत्य दर्शयति तो भावु च्चिय वत्थं विसेसियमभिण्णलिंग वयणं पि । बहुपज्जायं पि मयं सद्दत्थवसेण सदस्स ॥ २२३५|| ततस्तस्माद् नामादिनिक्षेपे भावघटादिको भाव एव वस्त्वित्यसाविच्छति । तदपि पूर्वोक्तनीत्या सद्भावादिभिर्विशेषितमभिन्नलिङ्ग-वचनं चाभ्युपैति स्ववाचकध्वनीनामभिन्ने लिङ्ग-वचने यस्य तदभिन्नलिङ्ग-वचनं वस्त्वसावभ्युपगच्छति, न पुनरेकस्यैवार्थस्य लिङ्गत्रयवृत्तिशब्दवाच्यत्वम्, एक बहुवचनवृत्तिशब्दवाच्यत्वं वा मन्यत इत्यर्थः । समभिरूढेन सहास्य मतभेदं दर्शयति- 'इन्द्रः ' 'शक्रः पुरन्दरः' इत्यादिबहुपर्यायमध्ये कमिन्द्रादिकं शब्दनयस्य मतेन भवति । केन ? । शब्दस्येन्द्रादेरिन्दनादिको योऽर्थस्तदर्शनैकस्मिन्नपीन्द्रादिके वस्तुनि यावन्त इन्दन-शकन- पूर्वारणादयोऽर्था घटते तद्वशेनेन्द्र शक्रादिबहुपर्यायमपि तद् वस्तु शब्दनयो मन्यत इत्यर्थः । समभिरूढस्तु नैवं मंस्यत इत्यनयोर्भेद इति । उक्तः शब्दनयः ।। २२३५ ।। अथ समभिरूढमाह - जं जं सण्णं भासइ तं तं चिय समभिरोहए जम्हा । सण्णंतरत्थविमुहो तओ तओ समभिरूढो त्ति ॥२२३६ ॥ यांयां संज्ञां घटादिलक्षणां भाषते वदति तां तामेव यस्मात् संज्ञान्तरार्थविमुखः कुट कुम्भादिशब्दवाच्यार्थ निरपेक्षः ध्वनिभेदाद् भेदः स्त्री-पुंलिङ्गाभिधानवाच्यानाम् । पट-कुम्भानामिव यतस्तेनाभिन्नार्थमिष्टं तत् ।। २२३४ ॥ २ यतो भाव एव वस्तु विशेषितमभिन्नलिङ्ग -वचनमपि बहुपर्यायमपि मतं शब्दार्थवशेन शब्दस्य ।। २२३५ ।। ३ यां यां संज्ञां भाषते तां तामेव समाभिरोहति यस्मात् संज्ञान्तरविमुखस्ततः सकः समभिरूढ इति ।। २२३६ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥९१२ ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy