________________
वृहदत्तिः ।
सनसंश्च भवति, घटोऽघटश्च भवतीत्यर्थः । तथा, एकस्मिन् देशे स्वपर्यायः सद्भावेन सत्त्वेनार्पितो विशेषितो यत्र तु देशे ख-परो-भयविशेषा० । पर्यायैः सद्भावा-सद्भावाभ्यां सचा-ऽसत्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चावक्तव्यश्च भवति, घटो-
ऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात् , देशे चावक्तव्यत्वादिति । तथा, एकदेशे परपर्यायैरसद्भावेनार्पितो विशेषितोऽन्यस्मिंस्तु ॥९११॥
देशे स्व-परपर्यायैः सद्भावा-ऽसद्भावाभ्यां सत्चा-ऽसत्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति- अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्याकुम्भत्वात् , देशे चावक्तव्यत्वादिति । तथा, एकदेशे स्वपर्यायैः सद्भावेनार्पितः, एकस्मिंस्तु देशे परपर्यायैरसद्भावेनार्पितः, अन्यस्मिंस्तु देशे स्व-परो-भयपर्यायैः सद्भावा-सद्भावाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्वासंश्चावक्तव्यश्च भवति- घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात् , देशेऽघटत्वात् , देशे चावक्तव्यत्वादिति ।
इह च 'कुंभाकुंभ' इत्यादिना गाथार्धेन षड् भङ्गाः साक्षादुपात्ताः, सप्तमस्त्वादिशब्दात् तद्यथा- 'कुम्भः' 'अकुम्भः' 'अवक्तव्यः' उभय त्ति' संश्चासंश्चेत्युभयम्, तथा सन्नवक्तव्यक इत्युभयम्, तथाऽसन्नवक्तव्यक इति चोभयम्, आदिशब्दसंगृहीतस्तु सप्तमः सनसनवक्तव्यक इति । एवं सप्तभेदो घटः । एवं पटादिरति द्रष्टव्यः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वात्, ऋजुमूत्राद् विशेषिततरवस्तुग्राहित्वाच्च, स्याद्वादिनस्तु संपूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति । अलं विस्तरेणेति ॥ २२३१ ॥ २२३२ ।।
अथवा, लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाह
वत्थुमविसेसओ वा जं भिन्नाभिन्नलिंग-वयणं पि । इच्छइ रिउसुत्तनओ विसेसिययरं तयं सद्धो ॥२२३३॥
'वा' इत्यथवा, भिन्ना-भिन्नलिङ्गवचनमप्यविशेषतो यद् वस्त्विच्छति ऋजुमूत्रनयः, तद् विशेषिततरमिच्छति शब्दनय इति ॥ २२३३ ॥
कुतः' इत्याह
खDacecादसा
H९११॥
१ वस्त्वविशेषतो वा यद् भिन्नाभिन्न लिङ्ग-वचनमपि । इच्छत्जुसूत्रनयो विशेषिततरं तत् शब्दः ॥ २२३३ ॥
JamEducational Intemag
For Personal and
Use Only
R
a janeibrary.org