SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ बृहद्धत्तिः। रममत घटलिङ्गादर्शनाचेति । अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः। जलाहरणादिकं घटलिङ्ग च तेषु न दृश्यत इति ततोऽनुमानविशेषा०विरोधोऽपीति ॥ २२२९ ॥ _ 'कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ?' इति ऋजुमूत्रशिक्षणार्थमाह-- ॥९१०॥ जइ विगया-गुप्पन्ना पओयणाभावओ न ते कुंभा। नामादओ किमिट्ठा पओयणाभावओ कुंभा ?॥२२३०॥ यदि विगता अनुत्पन्नाश्च त्वयाहो ! ऋजुमूत्र ! कुम्भा नेष्टाः, प्रयोजनाभावात् , तर्हि नामादयोऽपि कुम्भाः किमिष्टाः, प्रयोजनाभावस्य समानत्वात् । न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयत इति ॥ २२३०॥ तदेवमृजुसूत्रात् शब्दनयस्य विशेषिततरत्वमुक्तम् । अथवा, अन्यथा तद् द्रष्टव्यम् । कथम् ? इत्याह अहवा पच्चुप्पन्नो रिउसुत्तस्साविसेसिओ चेव । कुंभो विसेसिययरो सब्भावाईहिं सदस्स ॥२२३१॥ सब्भावा-सब्भावो-भयप्पिओ स-परपज्जओ-भयओ। कुंभा-कुंभा-ऽवत्तव्वोभयरूवाइभेओ सो ॥२२३२॥ अथवा, प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः, तथाहि- स्वपर्यायैः, परपर्यायैः, उभयपर्यायैश्च सद्भावेन, असद्भावेन, उभयेन, चार्पितो विशेषितः कुम्भः कुम्भा-कुम्भा-ऽवक्तव्योभयरूपादिभेदो भवति- सप्तभङ्गी प्रतिपद्यत इत्यर्थः। तद्यथा-ऊर्ध्वग्रीवा-कपाल-कुक्षि-बुध्नादिभिः स्वपर्यायः सद्भावेनार्पितो विशेषितः कुम्भः कुम्भी भण्यते- 'सन् घटः' इति प्रथमो भङ्गो भवतीत्यर्थः । तथा, पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो विशेषितोऽकुम्भो भवति-सर्वस्यापि घटस्य परपर्यायैरसत्वविवक्षायां 'असन् घटः' इति द्वितीयो भङ्गो भवतीत्यर्थः। तथा, सर्वोऽपि घटः स्व-परो-भयपर्यायैः सद्भावा-ऽसद्भावाभ्यां सच्चा-ऽसत्त्वाभ्यामर्पितो विशेषितो युगपद् वक्तुमिष्टोऽवक्तव्यो भवति, स्व-पर-पर्यायसत्त्वा-ऽसत्त्वाभ्यामेकेन केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद् वक्तुमशक्यत्वादिति । एते त्रयः सकलादेशाः। अथ चत्वारोऽपि विकलादेशाः प्रोच्यन्ते । तत्रैकस्मिन् देशे वपर्यायसत्त्वेन, अन्यत्र तु देशे परपर्यायासवेन विवक्षितो घटः , यदि विगता-अनुत्पन्नाः प्रयोजनाभावतो न त्वया कुम्भाः। नामादयः किमिष्टाः प्रयोजनाभावतः कुम्भाः ? ॥ २२३०॥ २ अथवा प्रत्युत्पन्न कसूत्रस्थाविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ २२ ॥ सजावा सद्भावी-भयार्पितः स्व-परपर्ययो-भयतः । कुम्भा-ऽकुम्भा-ऽवक्तव्योभयरूपादिभेदः सः ॥ २२३२ ॥ ९१०॥ TRANGAN AGARRAPE Jan E inema For Personal and Use Only alwww.jainabrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy