________________
विशेषा.
॥९०९॥
सेवणं सपइ स तेणं व सप्पए वत्थु जं तओ सहो । तस्सत्थपरिग्गहओ नओ वि सदो त्ति हेउ ब्व ॥२२२७॥
'शप' आक्रोशे, शपनमाहानमिति शब्दः, शपतीति वाऽऽहयतीति शब्दः, शप्यते वाऽऽहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्पधानत्वाद् नयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पश्चम्यन्तः शब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यगमकत्वाद् मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दोऽपि हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः ।। २२२७ ॥
'इच्छइ विससिययरं पच्चुप्पन्नं नओ सदो' इति नियुक्तिगाथादलव्याख्यानमाहते चिय रिउसुत्तमयं पच्चुप्पन्नं रिसेसिययरं सो। इच्छइ भावघडं चिय जं न उ नामादए तिन्नि ॥२२२८॥
तदेव ऋजुमूत्रनयस्य मतमभीष्टं प्रत्युत्पन्नं वर्तमानं वस्त्विच्छत्यसौ शब्दनयः । कथंभूतं तदित्याह-विशेषिततरम् । कुत इदं ज्ञायते ? इत्याह- यद् यस्मात् पृथुबुनोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छ त्यसौ, न तु शेषान् नाम-स्थापना-द्रव्यरूपांस्त्रीन् घटानिति । शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दस्यार्थः, 'घट चेष्टायाम्' 'घटत इति घट:' इति व्युत्पत्तेः । ततश्च य एव जलाहरणादिक्रियार्थमाचष्टे प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ, शब्दार्थोपपत्तेः, न तु नामादिघटान् , घटशब्दार्थानुपपत्तेः । अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुमूत्राद् विशेषिततरं वस्त्विच्छत्यसौ, एकस्यैव भावघटस्यानेनाभ्युपगमादिति ॥ २२२८ ॥
नामादिघटनिराकरणार्थमेव प्रमाणयन्नाह
नामादओ न कुंभा तक्कजाकरणओ पडाइ व्व । पच्चक्खविरोहाओ तल्लिंगाभावओ वावि ॥२२२९॥ नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्तीति प्रतिज्ञा, जलाहरणादितत्कार्याकरणात् , पटादिवत् ; तथा, प्रत्यक्षविरोधात ,
१ शपनं शपति स तेन वा शायते वस्तु यत् ततः शब्दः । तस्यार्थपरिग्रहतो नयोऽपि शब्द इति हेतुरिव ॥ २२२७ ॥ २ गाथा २१८४ । ३ तदेव सूत्रमतं प्रत्युत्पनं विशेषिततरं सः । इच्छति भावघटमेव यद् न तु नामादींस्त्रीन् ॥ २२२८ ॥ । नामादयो न कुम्भास्तत्कार्याकरणतः पटादिरिव । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वापि ॥ २२२९ ॥
९०९॥
Jan Education internati
For Personal and Price Use Only
Gaw.jainenibrary.org