________________
विगयमणायं वा भावोऽणुवलंभओ खपुष्कं व । न य निप्पओयणाओ परकीयं परधणमित्र त्थि ॥२२२४॥ विगतं विनष्टमतीतम्, अनागतं त्वनुत्पन्नम् एतदुभयरूपमपि न भावो न वस्तु, अनुपलम्भात्- खपुष्पवदिति । न च पर॥९०८ ॥ की वस्त्वस्ति, निष्प्रयोजनत्वात्, प्रयोजनाकर्तृत्वात् परधनवदिति । २२२४ ॥
विशेषा०
Jain Education Internati
अथ व्यवहारai युक्तितः स्वपक्षं ग्राहयन्नाह-
जैइ न मयं सामन्नं संववहारोवलद्धिरहियं ति । नणु गयमेस्सं च तहा परक्कमवि निष्फलत्तणओ ॥२२२५ ॥ हे व्यवहारयवादिन् ! यदि तव व्यवहारानुपयोगादनुपलम्भाच्च सामान्यं न मतं संग्रहस्य संगतमपि नेष्टमित्यर्थः ननु तथा तेनैव प्रकारेण व्यवहारानुपयोगादनुपलम्भाच्च गतमतिक्रान्तम् एष्यच्चानागतं वस्तु माऽभ्युपगमस्त्वम्, युक्तेः समानत्वात् । तथा, परकीयमपि वस्तु मैषीः, स्वप्रयोजनासाधकत्वेन निष्फलत्वात्, परधनवदिति ।। २२२५ ।।
अथ यदसौ नयोऽभ्युपगच्छति तत् सर्वमुपसंहृत्य दर्शयति-
तुम्हा निययं संपइकालीणं लिंग वयणभिन्नं पि । नामाइभेयविहियं पडिवज्जइ वत्थुमुज्जुसुओ ॥ २२२६ ॥
तस्मासूत्रनथः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते । कथंभूतम् । निजकमात्मीयम्, न परकीयम्, तदपि सांगतकालीनं वर्तमानम्, न त्वतीतानागतरूपम् । तच्च निजं वर्तमानं च वस्तु लिङ्ग-वचनभिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिलिङ्गम्, यथा तट, टी, टमित्यादि । तथैकमप्येकवचन बहुवचनवाच्यम्, यथा गुरुर्गुरवः, आपो जलम्, दाराः कलत्रमित्यादि । तथा, नामादिभेदविहितमप्यसौ वस्त्वभ्युपगच्छति, नाम- स्थापना द्रव्य भावरूपांश्चतुरोऽपि निक्षेपानसौ मन्यत इत्यर्थः । तदिह 'लिंग-वयण' इत्यादिनाऽभ्युपगमद्वयोपन्यासेन वक्ष्यमाणशब्दनयेन सहास्याभ्युपगमभेदो दर्शितः । शब्दनयो हि लिङ्गभेदाद् वचनभेदाच्च वस्तुनो भेदमेव प्रतिपत्स्यते, न पुनरेकस्वम् तथा, नामादिनिक्षेपेऽप्येकमेव भावनिक्षेपं मंस्यते, न तु शेषनिक्षेपत्रयमिति । तदेवमुक्त ऋजुमुत्रनधः ।। २२२६ ॥
अथ शब्दनयमाह -
१ न विगतमनागतं वा भावोऽनुपलम्भतः खपुष्पमिव । न च निष्प्रयोजनात् परकीयं परधनमिवास्ति ।। २२२४ ॥ २ यदि न मतं सामान्यं संव्यवहारोपलब्धिरहितमिति । ननु गतमेष्यच्च तथा परकीयमपि निष्फलत्वतः ॥ २२२५ ॥ ३ तस्माद् निजकं संप्रतिकालिकं लिङ्ग-वचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजुश्रुतः ॥ २२२६ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
॥ ९०८ ॥
www.jainelibrary.org