Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 133
________________ विशेषा० ॥९३१॥ तदेवमनुयोगपृथक्करणे तथा विभागकरणे च सामान्येनोक्तेऽपि कारणे पुनरपि नयाविभागे विशेषतः कारणमाह- 'सविसयेत्यादि । इह शिष्यास्विविधाः, तद्यथा- अपरिणामाः, अतिपरिणामाः, परिणामाश्चेति । तत्राविपुलमतयोगीतार्था अपरिणतजिनवचनरहस्या अपरिणामाः । अतिव्याप्त्याऽपवाददृष्टयोऽतिपरिणामाः। सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तयः परिणामाः। तत्र येऽपरिणामास्ते नयानां यः स्वः व आत्मीय आत्मीयो विषयः 'ज्ञानमेव श्रेयः क्रिया चाश्रेयः' इत्यादिकस्तमश्रद्दधानाः। ये त्वतिपरिणामास्तेऽपि यदैवैकेन नयेन क्रियादिकं वस्तु प्रोक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्यादिवस्तुप्रतिपादकनयानां च परस्परविरोधं मन्वाना मिथ्यात्वं मा गच्छेयुः। येऽप्युक्तस्वरूपाः परिणामाः शिष्यास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयाख्यायमानये सूक्ष्माः मूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता असमर्था भवेयुरिति मत्वा तत आयरक्षितमूरिभिः 'कालिक'- इत्युपलक्षणत्वात् सर्वस्मिन्नपि श्रुते नयविभागो विस्तरव्याख्यारूपो न कृतः ॥ इति गाथापञ्चकार्थः ॥ २२८९ ।। २२९० ॥ २२९१ ॥ २२९२ ॥ २२९३ ।। कः पुनरयं चरणकरणाद्यनुयोगानां श्रुतविभागः ? इत्याहकालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वो य दिहिवाओ चउत्थओ होइ अणुओगो ॥२२९४॥ जं च महाकप्पसुयं जाणि अ सेसाणि छेअसुत्ताणि । चरणकरणाणुओगो त्ति कालियत्थे उवगयाणि ॥२२९५॥ इहैकादशाङ्गरूपं सर्वमपि श्रुतं कालग्रहणादिविधिनाऽधीयत इति कालिकमुच्यते । तत्र प्रायश्चरण-करणे एव प्रतिपाद्यते । अत आयरक्षितमूरिभिस्तत्र चरणकरणानुयोग एवं कर्तव्यतयानुज्ञातः, न तु सन्तोऽपि शेषा धर्मकथाद्यनुयोगात्रय इति, अतोऽनुयोगतद्वतोरभेदोपचारात् कालिकश्रुतं प्रथमश्चरणकरणानुयोगो व्यपदिश्यते । तथा, ऋषिभाषितान्युत्तराध्ययनानि तेषु च नमि-कपिलादिमहर्षीणां संबन्धीनि पायो धर्माख्यानकान्येव कथ्यन्त इति धर्मकथानुयोग एव तत्र व्यवस्थापितः । सूर्यप्रज्ञप्त्या तु चन्द्र-सूर्य ग्रहनक्षत्रादिचारगणितमेव प्रायः प्रतिपाद्यत इति तत्र गणितानुयोग एवं व्यवस्थापितः । दृष्टिवादे तु सबस्मिन्नपि चालना-प्रत्यवस्थानादिभिर्जीवादिद्रव्याण्येव प्रतिपाद्यन्ते, तथा सुवर्ण-रजत-मणि-मौक्तिकादिद्रव्याणां च सिद्धयोभिधीयन्त इति द्रव्यानुयोग एव तत्र निरूपित इति । एवं चत्वारोऽप्यनुयोगाः श्रुतभेदेन स्थापिताः, प्रतिमूत्रं तत्करणं निषिद्धमित्यर्थः । ऋषिभाषितानि धर्मकथानुयोग १ कालिकश्रुतं चर्षिभाषितानि तृतीयश्च सूरमज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थको भवस्यनुयोगः ॥ २२९४ ॥ यच महाकल्पश्रुतं यानि च शेषाणि च्छेदसूत्राणि । चरणकरणानुयोग इति कालिकार्थ उपगतानि ॥ २२९५ ॥ RRRRRRRRRIORS ॥९३१॥ PROCES For Posod e On

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202