Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 134
________________ विशेषा ॥९३२॥ इत्युक्तम् , ततश्च महाकल्पश्रुतादीनामपि दृष्टिवादादुत्य महिर्षिभिः प्रतिपादितत्वेनर्षिभाषितत्वाद् धर्मकथानुयोगत्वप्रसङ्गे चरणकरणानुयोगत्वप्रतिपादनार्थमाह- 'जं चेत्यादि' यच्च महाकल्पश्रुतं, यानि च शेषाणि कल्पादीनि च्छेदमूत्राणि तान्यपि सर्वाणि चरणकरणानुयोग इति मन्तव्यानि । कुतः १ । यस्मात् तान्यपि कालिकार्थ उपगतानि कालिकश्रुतेऽन्तर्भूतानीत्यर्थः । इति नियुक्तिगाथाद्वयार्थः ॥ २२९४ ॥ २२९५ ॥ अथ 'बहुरय पएस' इत्यादिवक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनां कर्तुमाहऐवं चिहियपुहत्तेहिं रक्खियज्जेहिं पूसमित्तम्मि । ठविए गणिम्मि किर गोट्ठमाहिलो पडिनिवेसणं ॥२२९६।। सो मिच्छत्तोदयओ सत्तमओ निण्हवो समुप्पण्णो । के अन्ने छ ब्भणिए पसंगओ निण्हउप्पत्ती ॥२२९७॥ एवमुक्तपकारेण विहितानुयोगपृथक्त्वैरार्यरक्षितमूरिभिर्दिवं यियासुभिघृत-तैल-बल्लघटादिप्ररूपणां सकलगच्छसमक्षं विधाय दुर्बलिकापुष्पमित्र गणिन्याचार्ये स्थापित यो मथुरानगर्यामन्यतीर्थिकेन सह 'वचवी' इति कृत्वा वाददानार्थ सूरिभिर्निजमातुलको गोष्ठामाहिलः प्रेषित आसीत् , स यशःशेषेषु मूरिषु प्रतिवादिनं जित्वा समागतः सन् 'मामेवंभूतं वचस्विनं परित्यज्यान्योऽयमृषिर्मूककल्पः सूरिभिराचार्य उपयोशितः, तत्पश्य कीदृशं तैः कृतम्' इत्यभिप्रायतः, तथा तां च घृतघटादिप्ररूपणां श्रुत्वा प्रतिनिवेशेन गाढानुशयेन यो मिथ्यात्वोदयो जातस्तस्मात् स गोष्ठामाहिलः सप्तमो निद्भवः समुत्पन्नः । ननु यद्ययं सप्तपः, तर्हि केऽन्ये षड् ? इत्या. शङ्कय प्रसङ्गतो निदवोत्पत्तिर्भण्यते । इत्येका प्रस्तावना ।। २२९६ ।। २२९७ ।। अथवा, अन्यथाऽभिधीयते, तद्यथाअहवा चोएइ नयाणुओगनिण्हवणओ कहं गुरवो। न हि निण्हवति, भण्णइ जओन जपंति नत्थि त्ति ॥२२९८॥ न य मिच्छभावणाए बयंति जो पुण पयं पि निण्हवइ। मिच्छाभिनिवेसाओ स निण्हवो बहुरयाइव्व ॥२२९९।। १ गाथा २३०१।२ एवं विहितपृथक्त्यै रक्षिताः पुष्पमित्रे । स्थापिते गणिनि किल गोष्ठामाहिला प्रतिनिवेशेन ॥ २२९६ ।। स मिथ्यात्वोदयतः सप्तमको निहवः समुत्पन्नः । केऽन्ये षड् भणिताः प्रसङ्गतो निहवोत्पत्तिः ॥ २२९७ ॥ ३ अथवा चोदयति नयानुयोगनिहवनतः कथं गुरवः । न हि निववा इति, भण्यते यत्रो न जल्पन्ति न सन्तीति ॥ २२९८ ॥ न च मियाभावनया वदन्ति यः पुनः पदमपि निनुते । मिथ्याभिनिवेशात् स निह्नवो बहुरतादिरिव २९९ ॥ ॥९३२॥ Jan Education Inter For Personal and Price Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202