Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 135
________________ विशेषा. बृहदृक्तिः । ॥९३३॥ अथवेति प्रस्तावनान्तरसूचकः । परः प्रेरयति- ननु नयानुयोगनिद्भवात् कथमार्यरक्षितगुरवो न-निझा भण्यन्ते । अत्रोत्तरम्- यतो 'न सन्ति नयानुयोगाः' इति तेन जल्पन्ति, नापि मिथ्यात्वभावनया मिथ्याभिनिवेशेन ते किश्चिद् वदन्ति । किन्तु प्रवचनहितार्थमेव नयानुयोगगोपनं तैर्विहितम् । यः पुनर्मिथ्याभिनिवेशादेकमपि जिनोक्तं पदं निनुते स बहुरतादिवज्जमाल्यादिवद् निर्व एवेति ॥ २२९८ ।। २२९९ ।। के पुनस्ते बहुरतादयः ? इत्याह बहुरय पएस अव्वत्त सामुच्छा दुग तिग अबद्धिआ चेव । एएसिं निग्गमणं वोच्छामि अहाणुपुवीए॥२३००॥ 'बहरय त्ति' एकस्मिन् क्रियासमये वस्तु नोत्पद्यते, किन्तु बहुभिः क्रियासमयः, इत्यभ्युपगमाद् बहुषु समयेषु रताः सक्ता बहुरता दीर्घकालवस्तुमभवप्ररूपका इत्यर्थः । 'पएस त्ति' पूर्वपदलोपाजीवप्रदेशा इति द्रष्टव्यम् , यथा वीरो महावीर इति । एक एव चरमप्रदेशो जीव इत्यभ्युपगमाज्जीवः प्रदेशो येषां ते जीवपदेशा निदवाश्चरमप्रदेशजीवप्ररूपिण इति हृदयम् । 'अव्वत्त ति' उत्तरपदलोपादव्यक्तमता यथा भीमो भीमसेन इति । न ज्ञायतेत्र कोऽपि संयतः, कोऽप्यसंयत इत्यव्यक्तस्यैव सर्वस्याभ्युपगमाद्न व्यक्तमव्यक्तमस्फुटम् , अव्यक्तं मतं येषां तेऽव्यक्तमताः संयतासंयताधवगमे संदिग्धबुद्धय इत्यर्थः । 'समुच्छ त्ति' एकदेशेन समुदायस्य गम्यमानत्वादुत्पत्त्यनन्तरमेव सामस्त्येन प्रकर्षतश्छेदः समुच्छेदो वस्तुविनाशः, समुच्छेदमधीयते, तद्वेदिनो वा, इत्यण्प्रत्यये सामुच्छेदाः क्षणक्षयिभावप्ररूपका इत्यर्थः । 'दुग त्ति' उत्तरपदलोपादेकस्मिन्नपि समये क्रियाद्वयानुभवाभ्युपगमाद् द्विक्रियाः, एकसमये द्वे क्रिये समुदिते द्विक्रियम् , तदधीयते तद्वदिनो वा क्रियाः कालभेदेन क्रियाद्वयानुभवप्ररूपिण इति भावः। 'तिग त्ति' त्रैराशिकाः, जीवा-जीवनोजीवभेदात् त्रयो राशयः समाहृतास्त्रिराशि तत्पयोजनमेषां ते त्रैराशिका जीवा-जीव-नोजीवराशित्रयख्यापका इति तात्पर्यम् । 'अबदिअ त्ति' स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमवद्धमेव येषामस्ति वदन्ति वेत्यवदिकाः स्पृष्टकर्मविपाकमरूपका इत्यर्थ इति । एते सप्त निवाः । एतेषां निर्गमनमुत्पत्तिमानुपूर्व्या यथाक्रमं वक्ष्ये ॥ इति गाथापचकार्थः ।। २३००॥ अथ येभ्यो ये निवाः समुत्पन्नास्तदेतदाह । बहुरता प्रदेशा अव्यक्ता सामुच्छेदा दैक्रियास्त्रैराशिका भवद्धिकाश्चैव । एतेषां निर्गमनं वक्ष्येऽथानुपूर्ध्या ॥ २३०० ॥ ॥९३३॥ Jan Education Internati For Personal and Price Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202