Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 126
________________ विशेषा बहत्तिः । ॥९२४॥ देसगमगत्तणाओ गमग च्चिय वत्थुणो सुयाइ व्व । सव्वे समत्तगमगा केवलमिव सम्मभावम्मि ॥२२६८॥ इह नया वस्तुनस्तावत् सामान्येन गमका अवबोधकाः प्रापका इति पक्षः, तद्देशगमकत्वात् । ननु वस्तुनो देशमात्रमेव प्रत्येकममी गृहन्ति, तत्कथं वस्तुगमका उच्यन्ते ? इत्याह- श्रुतादिवत् । इदमुक्तं भवति-घटादीनां रूपमात्रमेव चक्षुर्ग्रहाति, न रसादिधर्मान् । पर्वतादीनां चार्वाग्देशमात्रमेव गृह्णाति न परभागमिति, एवं देशग्राहकमपि सद् वस्तु गमयत्येव, एवं नया अपि। किञ्च, एत एव सर्वे नया मिथ्यात्वापगमेन सम्यक्त्वसद्भावे क्रमेण विशुध्यमानाः सर्वावरणपतिबन्धाभावात् समस्तवस्तुगमका भवन्ति, केवलज्ञानमिवेति ।। २२६८॥ आह- ननु यदि ते प्रत्येकमपि वस्तुगमकाः, तर्हि मिथ्यादृष्टयः कथम् ? इत्याहजमणेगधम्मणो वत्थुणो तदंसे च सव्वपडिवत्ती । अन्ध व्व गयावयवे तो मिच्छद्दिछिणो वीसु ॥२२६९॥ यद् यस्मादनेकधर्मस्यानेकधर्मात्मकस्य वस्तुनस्तदंशेऽपि गृहीतेऽनित्यत्वाद्येकधर्ममात्रेऽपि परिच्छिन्ने बौद्धार्नयवादिनः 'समस्तं वस्तु मया गृहीतम्' इत्येवंभूता प्रतिपत्तिर्भवति । ततस्तस्माद् विष्वक् पृथगेककशो मिथ्यादृष्टयः, विपर्यस्तबुद्धित्वात् , एकस्मिन् | पुच्छ-पादाद्यवयवे समस्तगजप्रतिपत्तारोऽन्धा इवेति ॥ २२६९ ॥ समुदिता अपि तर्हि कथं ते सम्यग्दृष्टयः ? इत्याह जं पुण समत्तपज्जायवत्थुगमग त्ति समुदिया तेणं । सम्मत्तं चक्खुमओ सव्वगयावयवगहणे व ॥२२७०॥ यस्मात् तु समुदिता नयाः समस्तपर्याया यस्य वस्तुनस्तत् सपस्तपर्यायं वस्तु तस्य गमकाः प्रापका भवन्ति, तेन ते सम्यक्त्वं सम्यग्वादिनो व्यपदिश्यन्ते । यथा समस्तगजावयवग्रहणे सर्वगजावयवसमुदायात्मकगजवादिनश्चक्षुष्मन्तः । निरवधारणोऽपरनयसापेक्षः स्यात्पदलाञ्छित एकोऽपि नयः सम्यग्वादी, ये तु सावधारणा अन्योन्यमनपेक्षाः स्यात्पदालाञ्छितास्ते बहवोऽपि समुदिता मिथ्यादृष्टय एवेतीह तात्पर्यम् । अत एव ये सावधारणास्ते बहवोऽपि समुदितव्यपदेशं न लभन्ते, तत्त्वतस्तेषामसमुदितत्वात् । निरवधारणास्तु नयाः पृथगपि स्थिताः परस्परं सापेक्षत्वेन समुदिता भण्यन्त इति ।। २२७० १ देशगमकत्वाद् गमका एवं वस्तुनः श्रुतादिरिख । सर्वे समस्तगमकाः केवलमिव सम्यग्भावे ॥ २२६८ ॥ २ यदनेकधर्मणो वस्तुनस्तदंशे च सर्वप्रतिपत्तिः । अन्धा इव गजावयवे ततो मिथ्यारष्टयो विष्वक् ॥ २२६९ ॥ ३ यत् पुनः समस्तपर्यायवस्तुगमका इति समुदितास्तेन । सम्यक्त्वं चक्षुष्मन्तः सर्वगजावयवग्रहण इव ॥ २२७०। ॥९२४॥ Sta Jan Education Inten For Personal and Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202