Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 127
________________ विशेषा. FON ॥९२५॥ अष्टान्तान्तरेणापि समुदितानां समस्तवस्तुगमकत्वं समर्थयन्नाह ने समत्तवत्थुगमगा वीसुं रयणावलीए मणउ व्व । सहिया समत्तगमगा मणओ रयणावलीए व्व॥२२७१॥ बृहद्वत्तिः। न समस्तवस्तुगमकाः पृथग्भूता नयाः, परस्परनिरपेक्षत्वात् , पृथस्थितरन्नावलीव्यपदेशाहप्रणय. इव । त एव समुदिताः | समस्तवस्तुगमकाः, यथास्थानविनियोगेन परस्परसापेक्षत्वात् , एकमूत्रक्रमप्रोतरत्नावलीमणय इवेति ।। २२७१ ॥ अथ परस्परं विवदमानान् नयान् समीक्ष्य ये मुह्यन्ति, 'न किञ्चिदिह परस्परं मिलति' इत्यादिभाषणतः समयाशातनां च कुर्वन्ति, तदुपदेशगर्भमुपसंहरन्नाह ऐवं सविसयसच्चे परविसयपरंमुहतए नाउं । नेएसु न संमुज्झइ न य समयासायणं कुणइ ॥ २२७२ ॥ एवमुक्तप्रकारेण यो यस्य द्रव्यास्तिकायादिनयस्यात्मीयो नित्यत्वादिको विषयस्तन्मात्रप्रतिपादने सत्योऽवितथो नयः, परस्य तु पर्यायास्तिकादिनयस्स योऽनित्यत्वादिको विषयस्तत्र पराङमुखः, न तं निराकरोति, निरवधारणत्वेन सम्यगनयत्वात् , नापि तं स्थापयति, नयत्वेनैकांशग्राहित्वादित्यर्थः । एवंभूतान् सर्वानपि नयान् ज्ञात्वाऽन्योन्यरूपतया तेषां स्वविषयप्रतिपादनेऽपि नयविधिज्ञः साधुर्जेयेषु वस्तुषु न संमुह्यति, न दोलायमानमान सो भवति । नापि निन्दादिभिः सययाशातनां विधाय मिथ्यात्वमुपगच्छति, किन्तु 'कथञ्चिदेतदप्यस्ति कथञ्चिदिदमपि च घटते' इत्यादिरूपतया नयान् विषयविभागेन व्यवस्थाप्य वस्त्वर्थं गमयतीति ॥२२७२।। नन्वनेन संमोहहेतुना नयविचारेण मूलत एव किं प्रयोजनम् ? इत्याह-- अत्थं जो न समिक्खइ निक्खेव-नय-प्पमाणओ विहिणा । तस्साजुत्तं जुत्तं जुत्तमजुत्तं ध पडिहाइ॥२२७३॥ परसमएगनयमयं तप्पडिवक्खनयओ निवत्तेज्जा । समए व परिग्गहियं परेण जं दोसबुद्धीए ॥२२७४॥ यो नाम-स्थापनादिद्वारेण, तथा नैगमादिनयः, प्रत्यक्षादिभिश्च प्रमाणैरर्थ सूक्ष्मेक्षिकया विचार्य न समीक्षते न परिभावयति, न समस्सवस्तुगमका विष्वग् रखावल्या मणय इव । सहिताः समस्तगमका मणयो रत्नावल्या इव ॥ २२७१ ॥ २ एवं स्वविषयसत्यान् परविषयपराङ्मुखतया ज्ञात्वा । ज्ञेयेषु न संमुह्यति न च समयाशातनां करोति ॥ २२७२ ॥ ३ अर्थ यो न समीक्षते निक्षेप-नय-प्रमाणतो विधिना । तस्यायुक्तं युक्तं युक्तमयुक्तं वा प्रतिभाति ॥ २२ ॥ ॥९२५|| परसमयैकनयमतं तत्प्रतिपक्षनयतो निवर्तयेत् । समये वा परिगृहीतं परेण यद् दोषयुदधा ॥ २५७४ ।।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202