Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥९१७॥
अपरमपि समभिरूढनयाभिप्रायभेदं दर्शयन्नाहघेडकारविवक्खाए कत्तुरणत्थंतरं जओ किरिया। न तदत्थंतरभूए समवाओ तो मओ तीसे ॥ २२४९ ॥
कुंभम्मि वत्थुपज्जायसंकराइप्पसंगदोसाओ । जो जेण जं व कुरुए तेणाभिन्नं तयं सव्वं ॥ २२५० ॥
'घटं करोति' इति घटकार इत्यस्यां विवक्षायां प्ररूपणायां यस्मात् तस्य घटकर्तुरनर्थान्तरमव्यतिरिक्ता घटकरणक्रिया, कर्तर्येव घटकारे तस्याः समवायात् । 'तो त्ति तस्माद् न तदर्थान्तरभूत कर्तुर्व्यतिरिक्त कुम्भे घटे यस्याः समवायः संश्लेषो मतः । कुतः। वस्तुपर्यायसंकरादिदोषप्रसङ्गात्- वस्तूनां ये पर्याया धर्मास्तेषां परस्परं संकरः संकीर्णत्वमेकत्वं वा स्यात् , कर्तृगतक्रियायाः कुम्भेऽपि समवायाभ्युपगमात् । ततश्च यः कुम्भकारादिर्येन क्रियाविशेषेण यत् कुम्भादिकं कुरुते तेन क्रियाविशेषेण तक्रियारूपतयेत्यर्थः, सर्व तत् कर्तृ-कर्माद्यभिन्नं स्यात् । तस्मात् कर्तुगतक्रियाया न कर्मणि संक्रमः, किन्तु कुर्वन् कारकः, कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढ इति । उक्तः समभिरूढनयः ।। २२४९ ॥ २२५० ।।
अथैवंभूतमाह
ऐवं जह सहत्थो संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ सदत्थपरो विसेसेणं ॥ २२५१ ॥
एवं यथा 'घट चेष्टायाम्' इत्यादिरूपेण शब्दार्थो व्यवस्थितः, 'तह त्ति तथैव यो वर्तते घटादिकोऽर्थः, स एव सन् भूतो विद्यमानः। 'तदन्नहाऽभूउत्ति' यस्तु तदन्यथा शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति किन्त्वभूतोऽविद्यमानः । येनैवं मन्यते, तेन कारणेन शब्द-समभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थतत्परः । अयं हि योषिन्मस्तकारुढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते, न तु गृहकोणादिव्यवस्थितम् , अचेष्टनात् , इत्येवं विशेषतः शब्दार्थतत्परोऽयमिति ॥२२५१।। 'बैंजण-अत्थ-तदुभए एवंभूओ विसेसेई' इति नियुक्तिगाथादलं व्याचिख्यासुराह--
घटकारविवक्षायां कर्तुरनान्तरं यतः क्रिया । न तदर्थान्तरभूते समवायस्ततो मतस्तस्याः ॥ २२४९ ॥ कुम्भे वस्तुपर्यायसंकरादिप्रसङ्गदोषात् । यो येन यद् वा कुरुते सेनाभिन्न तत् सर्वम् ॥ २२५. ।। २ एवं यथा शब्दार्थः सन् भूतस्तदन्यथाऽभूतः । तेनैवंभूतनयः शब्दार्थपरो विशेषेण ॥ २२५१ ॥ ३ गाथा २१८५ ।
॥९१७||
For Personal and Price Use Only
Haliww.jainabrary.org
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202