Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 110
________________ विगयमणायं वा भावोऽणुवलंभओ खपुष्कं व । न य निप्पओयणाओ परकीयं परधणमित्र त्थि ॥२२२४॥ विगतं विनष्टमतीतम्, अनागतं त्वनुत्पन्नम् एतदुभयरूपमपि न भावो न वस्तु, अनुपलम्भात्- खपुष्पवदिति । न च पर॥९०८ ॥ की वस्त्वस्ति, निष्प्रयोजनत्वात्, प्रयोजनाकर्तृत्वात् परधनवदिति । २२२४ ॥ विशेषा० Jain Education Internati अथ व्यवहारai युक्तितः स्वपक्षं ग्राहयन्नाह- जैइ न मयं सामन्नं संववहारोवलद्धिरहियं ति । नणु गयमेस्सं च तहा परक्कमवि निष्फलत्तणओ ॥२२२५ ॥ हे व्यवहारयवादिन् ! यदि तव व्यवहारानुपयोगादनुपलम्भाच्च सामान्यं न मतं संग्रहस्य संगतमपि नेष्टमित्यर्थः ननु तथा तेनैव प्रकारेण व्यवहारानुपयोगादनुपलम्भाच्च गतमतिक्रान्तम् एष्यच्चानागतं वस्तु माऽभ्युपगमस्त्वम्, युक्तेः समानत्वात् । तथा, परकीयमपि वस्तु मैषीः, स्वप्रयोजनासाधकत्वेन निष्फलत्वात्, परधनवदिति ।। २२२५ ।। अथ यदसौ नयोऽभ्युपगच्छति तत् सर्वमुपसंहृत्य दर्शयति- तुम्हा निययं संपइकालीणं लिंग वयणभिन्नं पि । नामाइभेयविहियं पडिवज्जइ वत्थुमुज्जुसुओ ॥ २२२६ ॥ तस्मासूत्रनथः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते । कथंभूतम् । निजकमात्मीयम्, न परकीयम्, तदपि सांगतकालीनं वर्तमानम्, न त्वतीतानागतरूपम् । तच्च निजं वर्तमानं च वस्तु लिङ्ग-वचनभिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिलिङ्गम्, यथा तट, टी, टमित्यादि । तथैकमप्येकवचन बहुवचनवाच्यम्, यथा गुरुर्गुरवः, आपो जलम्, दाराः कलत्रमित्यादि । तथा, नामादिभेदविहितमप्यसौ वस्त्वभ्युपगच्छति, नाम- स्थापना द्रव्य भावरूपांश्चतुरोऽपि निक्षेपानसौ मन्यत इत्यर्थः । तदिह 'लिंग-वयण' इत्यादिनाऽभ्युपगमद्वयोपन्यासेन वक्ष्यमाणशब्दनयेन सहास्याभ्युपगमभेदो दर्शितः । शब्दनयो हि लिङ्गभेदाद् वचनभेदाच्च वस्तुनो भेदमेव प्रतिपत्स्यते, न पुनरेकस्वम् तथा, नामादिनिक्षेपेऽप्येकमेव भावनिक्षेपं मंस्यते, न तु शेषनिक्षेपत्रयमिति । तदेवमुक्त ऋजुमुत्रनधः ।। २२२६ ॥ अथ शब्दनयमाह - १ न विगतमनागतं वा भावोऽनुपलम्भतः खपुष्पमिव । न च निष्प्रयोजनात् परकीयं परधनमिवास्ति ।। २२२४ ॥ २ यदि न मतं सामान्यं संव्यवहारोपलब्धिरहितमिति । ननु गतमेष्यच्च तथा परकीयमपि निष्फलत्वतः ॥ २२२५ ॥ ३ तस्माद् निजकं संप्रतिकालिकं लिङ्ग-वचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजुश्रुतः ॥ २२२६ ॥ For Personal and Private Use Only बृहद्वत्तिः। ॥ ९०८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202