Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 108
________________ विशेषा० ॥९०६ ॥ Jain Education Internatio यदुक्तम्- "ओ वणस्सइ च्चिय ' इत्यादि, तद्विपक्षमाह तेह चूयाइविरहिओ अन्नो को सो वणस्सई नाम । अवणस्सइ च्चिय तओ घडो व्व चूयादभावाओ ॥२२१७॥ तथा, चूतादिविरहितः- चूत- निम्ब-कदम्ब जम्बूमभृतिविशेषेभ्योऽन्यः को नाम वनस्पतिर्यः सामान्यत्वेन गीयते । अथास्ति चूतादिभ्योऽपरः कोऽपि वनस्पतिः । ननु यद्येवम्, तर्हि तकोऽसाववनस्पतिरेव, चूताद्यभावरूपत्वात् घटादिवदिति ।। २२१७ ।। तदेवं वैश्च विणिच्छयत्थं' इत्येतव्याख्यायोपसंहरन्नाह - तो ववहारो गच्छइ विणिच्छयं को वणरसई चूओ ? । होज्ज व बउलाइरूवो तह सव्वदव्वभेएसु ॥ २२१८॥ ततस्तस्मादुक्तन्यायेन विचार्य विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयस्तं गच्छति स्वीकरोति व्यवहारनयः । कथं विचार्य ? ' इत्याह- को नाम वनस्पतिर्भवेत् । इति चिन्तायां चूतो बकुलादिर्वासौ भवेत्, न तु तदतिरिक्तवृक्षत्वसामान्यम् । तथा तेनैव प्रकारण | सर्वेष्वपि द्रव्यभेदेषु वक्तव्यम् - गो-तुरग रथादयो विशेषा एव, गोत्वादिसामान्यं न पुनरन्यदित्येवं सर्वत्र वाच्यमित्यर्थ इति ॥ २२१८ ॥ अथवा, अन्यथा विनिश्वयशब्दार्थ व्याचिख्यासुराह— अहिगो चत्ति वा निच्छओ त्ति सामन्नमस्स वबहारो । वच्च विणिच्छयत्थं जाइ विसामन्नभावं ति ॥ २२१९ ॥ वा- अथवा, अधिकवयो निश्चयः यथाऽधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् । अस्य सामान्यस्य व्यवहारयो व्रजति याति । किमर्थम् । विनिश्चयार्थम् । कोऽर्थः १ । विसामान्यभावं विसामान्यभावार्थं तदभावाय यतत इत्यर्थः || २२१९|| अथवा, लोकव्यवहारो विनिश्चयस्तदर्थं व्रजति व्यवहार इति दर्शयति भैमराइपंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थो त्ति सो गज्झो ॥२२२० ॥ १ गाथा २२१० । २ तथा चूतादिविरहितोऽन्यः कः स वनस्पतिर्नाम । अवनस्पतिरेव सको घट इव चूताद्यभावात् ॥ २२१७ ॥ ४ ततो व्यवहारो गच्छति विनिश्वयं को वनस्पतिश्चूतः ? भवेद् वा बकुलादिरूपस्तथा सर्वद्रव्यभेदेषु ॥ २२१८ ५ अधिकय इति वा निश्चय इति सामान्यमस्य व्यवहारः । व्रजति विनिश्वयार्थ याति विसामान्यभावमिति ॥ २२.३३ ॥ ६ भ्रमरादिपञ्चवर्णादी निश्वये यत्र वा जनपदस्य अर्थे विनिश्वयः स विनिश्चयार्थ इति स प्रायः ।। २२२० ॥ ३ गाथा २१८३ । For Personal and Private Use Only बृहद्वचिः । ॥ ९०६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202