________________
विशेषा०
॥९०६ ॥
Jain Education Internatio
यदुक्तम्- "ओ वणस्सइ च्चिय ' इत्यादि, तद्विपक्षमाह
तेह चूयाइविरहिओ अन्नो को सो वणस्सई नाम । अवणस्सइ च्चिय तओ घडो व्व चूयादभावाओ ॥२२१७॥ तथा, चूतादिविरहितः- चूत- निम्ब-कदम्ब जम्बूमभृतिविशेषेभ्योऽन्यः को नाम वनस्पतिर्यः सामान्यत्वेन गीयते । अथास्ति चूतादिभ्योऽपरः कोऽपि वनस्पतिः । ननु यद्येवम्, तर्हि तकोऽसाववनस्पतिरेव, चूताद्यभावरूपत्वात् घटादिवदिति ।। २२१७ ।।
तदेवं वैश्च विणिच्छयत्थं' इत्येतव्याख्यायोपसंहरन्नाह -
तो ववहारो गच्छइ विणिच्छयं को वणरसई चूओ ? । होज्ज व बउलाइरूवो तह सव्वदव्वभेएसु ॥ २२१८॥ ततस्तस्मादुक्तन्यायेन विचार्य विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयस्तं गच्छति स्वीकरोति व्यवहारनयः । कथं विचार्य ? ' इत्याह- को नाम वनस्पतिर्भवेत् । इति चिन्तायां चूतो बकुलादिर्वासौ भवेत्, न तु तदतिरिक्तवृक्षत्वसामान्यम् । तथा तेनैव प्रकारण | सर्वेष्वपि द्रव्यभेदेषु वक्तव्यम् - गो-तुरग रथादयो विशेषा एव, गोत्वादिसामान्यं न पुनरन्यदित्येवं सर्वत्र वाच्यमित्यर्थ इति ॥ २२१८ ॥ अथवा, अन्यथा विनिश्वयशब्दार्थ व्याचिख्यासुराह—
अहिगो चत्ति वा निच्छओ त्ति सामन्नमस्स वबहारो । वच्च विणिच्छयत्थं जाइ विसामन्नभावं ति ॥ २२१९ ॥
वा- अथवा, अधिकवयो निश्चयः यथाऽधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् । अस्य सामान्यस्य व्यवहारयो व्रजति याति । किमर्थम् । विनिश्चयार्थम् । कोऽर्थः १ । विसामान्यभावं विसामान्यभावार्थं तदभावाय यतत इत्यर्थः || २२१९|| अथवा, लोकव्यवहारो विनिश्चयस्तदर्थं व्रजति व्यवहार इति दर्शयति
भैमराइपंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थो त्ति सो गज्झो ॥२२२० ॥
१ गाथा २२१० । २ तथा चूतादिविरहितोऽन्यः कः स वनस्पतिर्नाम । अवनस्पतिरेव सको घट इव चूताद्यभावात् ॥ २२१७ ॥
४
ततो व्यवहारो गच्छति विनिश्वयं को वनस्पतिश्चूतः ? भवेद् वा बकुलादिरूपस्तथा सर्वद्रव्यभेदेषु ॥ २२१८
५ अधिकय इति वा निश्चय इति सामान्यमस्य व्यवहारः । व्रजति विनिश्वयार्थ याति विसामान्यभावमिति ॥ २२.३३ ॥
६ भ्रमरादिपञ्चवर्णादी निश्वये यत्र वा जनपदस्य अर्थे विनिश्वयः स विनिश्चयार्थ इति स प्रायः ।। २२२० ॥
३ गाथा २१८३ ।
For Personal and Private Use Only
बृहद्वचिः ।
॥ ९०६ ॥
www.jainelibrary.org