Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्धत्तिः।
रममत
घटलिङ्गादर्शनाचेति । अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः। जलाहरणादिकं घटलिङ्ग च तेषु न दृश्यत इति ततोऽनुमानविशेषा०विरोधोऽपीति ॥ २२२९ ॥
_ 'कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ?' इति ऋजुमूत्रशिक्षणार्थमाह-- ॥९१०॥
जइ विगया-गुप्पन्ना पओयणाभावओ न ते कुंभा। नामादओ किमिट्ठा पओयणाभावओ कुंभा ?॥२२३०॥
यदि विगता अनुत्पन्नाश्च त्वयाहो ! ऋजुमूत्र ! कुम्भा नेष्टाः, प्रयोजनाभावात् , तर्हि नामादयोऽपि कुम्भाः किमिष्टाः, प्रयोजनाभावस्य समानत्वात् । न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयत इति ॥ २२३०॥
तदेवमृजुसूत्रात् शब्दनयस्य विशेषिततरत्वमुक्तम् । अथवा, अन्यथा तद् द्रष्टव्यम् । कथम् ? इत्याह
अहवा पच्चुप्पन्नो रिउसुत्तस्साविसेसिओ चेव । कुंभो विसेसिययरो सब्भावाईहिं सदस्स ॥२२३१॥ सब्भावा-सब्भावो-भयप्पिओ स-परपज्जओ-भयओ। कुंभा-कुंभा-ऽवत्तव्वोभयरूवाइभेओ सो ॥२२३२॥
अथवा, प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः, तथाहि- स्वपर्यायैः, परपर्यायैः, उभयपर्यायैश्च सद्भावेन, असद्भावेन, उभयेन, चार्पितो विशेषितः कुम्भः कुम्भा-कुम्भा-ऽवक्तव्योभयरूपादिभेदो भवति- सप्तभङ्गी प्रतिपद्यत इत्यर्थः। तद्यथा-ऊर्ध्वग्रीवा-कपाल-कुक्षि-बुध्नादिभिः स्वपर्यायः सद्भावेनार्पितो विशेषितः कुम्भः कुम्भी भण्यते- 'सन् घटः' इति प्रथमो भङ्गो भवतीत्यर्थः । तथा, पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो विशेषितोऽकुम्भो भवति-सर्वस्यापि घटस्य परपर्यायैरसत्वविवक्षायां 'असन् घटः' इति द्वितीयो भङ्गो भवतीत्यर्थः। तथा, सर्वोऽपि घटः स्व-परो-भयपर्यायैः सद्भावा-ऽसद्भावाभ्यां सच्चा-ऽसत्त्वाभ्यामर्पितो विशेषितो युगपद् वक्तुमिष्टोऽवक्तव्यो भवति, स्व-पर-पर्यायसत्त्वा-ऽसत्त्वाभ्यामेकेन केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद् वक्तुमशक्यत्वादिति । एते त्रयः सकलादेशाः। अथ चत्वारोऽपि विकलादेशाः प्रोच्यन्ते । तत्रैकस्मिन् देशे वपर्यायसत्त्वेन, अन्यत्र तु देशे परपर्यायासवेन विवक्षितो घटः
, यदि विगता-अनुत्पन्नाः प्रयोजनाभावतो न त्वया कुम्भाः। नामादयः किमिष्टाः प्रयोजनाभावतः कुम्भाः ? ॥ २२३०॥ २ अथवा प्रत्युत्पन्न कसूत्रस्थाविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ २२ ॥ सजावा सद्भावी-भयार्पितः स्व-परपर्ययो-भयतः । कुम्भा-ऽकुम्भा-ऽवक्तव्योभयरूपादिभेदः सः ॥ २२३२ ॥
९१०॥
TRANGAN
AGARRAPE
Jan E
inema
For Personal and
Use Only
alwww.jainabrary.org
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202